SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥७१॥ | दर्पा, किं न नाम भवेदियं । बाल्येऽप्यनल्पचापल्या, सा हि दुष्टा स्वसा मम ॥८॥ अथवा संशयो|न्माथी, वीरोऽभ्यणेऽस्त्युपागतः । ततस्तमभिगच्छामि, पृच्छामि च यदृच्छया ॥ ९॥ अभ्येत्येति | धिया पृच्छन्, प्रच्छन्नं मनसैष मां । प्रश्नं लोकोपकाराय, कारितो गिर्मयं मया ॥ १० ॥ तदेष विषयग्रामो, निःसीमः परिभाव्यतां । नागरा अपि रंगेण, यत्र वास्तव्यतां दधुः ॥ ११ ॥ छरितः कपि-2 कच्छ्वेव, पुरुषो विषयेच्छया । रतिं न लभते कापि, भवनोपवनेष्वपि ॥ १२ ॥ यः संभोगेन निष्णातः, कामतृष्णां चिकित्सति । स त्रिदोषभवं दुःखं, सर्पिषा संजिहीर्षति ॥१३॥ लीलयैव गुणग्राम | -मुदग्रो मकरध्वजः। भस्मीकरोति सहसा, कृशानुरिव काननं ॥१४॥ न स मंत्रो न तत्तंत्रं, गुर्वाज्ञापि | न सा क्वचित् । पंचेषुविषदोषोत्था, लहरी येन शाम्यति ॥१५॥ अहो मोहमयं नव्यं, कामिनोनयनांजनं । इत्थं विपर्ययज्ञानं, येनोदेति पदे पदे ॥ १६ ॥ ___ अंगनानाममी केशान्, बर्हान् जानंति बर्हिणां । नेत्रे सरोरुहःपत्रे, कपोलो कामदर्पणो ॥१७॥ अधरं । 10. विद्रुमं वक्त्रं, पार्वणं रोहिणीपतिं । पयोधरौ सुधाकुंभौ, करौ कल्पद्रुपल्लवौ ॥ १८ ॥ नाभिं चेतोभुवो |R ॥७१॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy