________________
मृगावती ॥७॥
क्षयः ॥९६॥ तद् द्वितीया हितायास्याः, कार्यास्माभिरसंशयं । अस्मद्भोगविभागेन, या नित्यं सुख| यत्यमुं ।। ९७ ॥ एतद्विचिंत्य चक्रेऽस्या, भोगश्रमविभागिनी । अपरा युवतिः कापि, तैरत्यंतदया| लुभिः ॥९८॥ तत्र या प्राक्तनी पत्नी, सा खेदमतिमेदुरं । सपत्नीसंगमाल्लेभे, सर्वस्वहरणादिव ॥१९॥ | अथाच्छेत्तुं प्रवृत्तायाः, कामं कामसुखश्रियं । व्यापादनं कनीयस्या-स्तस्याः सा स्म समीहते ॥२०॥ |R
परं सा सन्निधौ तेषां, न तां हंतुमभूत्प्रभुः । प्रौढगोपपरीवारां, वृकी मुग्धामजामिव ॥ १ ॥ एकदा | क्वाप्यवस्कंदं, दातुं तेषु गतेष्वसौ । कूपोपकंठमानीय, मुग्धामेतामभाषत ॥ २॥ अंतःकूपं किम| प्येत-न्मनुष्याभं हि दृश्यते । ततोऽसौ तत्र पश्यंती, तया क्षिप्रं निचिक्षिपे ॥३॥ अथ सा नः
क्क पत्नीति, ते पप्रच्छरुपागताः । जानीथ यूयमेवेति, तेभ्यः साप्युत्तरं ददौ ॥ ४ ॥ इत्यसूयोत्तरा- | | तस्या, विज्ञैर्विज्ञायि तैः क्षणात् । सा वराकी सपत्नीति, नूनं व्यापादिताऽनया ॥ ५॥ अथ विप्र-IN | सुतश्चौर–श्चिंतयामास विस्मितः । प्रपंचः पंचबाणस्य, गेयस्य च वचोऽतिगः ॥ ६॥ यद् द्विती- | यामियं हत्वा, भोगश्रमविभागिनीं । एवमेकैव सहते, कामं कामविडंबनां ॥ ७॥ इत्थमुत्कटकं
॥७॥