SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मृगावती कुमारौ वसंतकः । अस्फोटयघटीमेकां, करिणीं चाप्यनुनुदत् ॥ २४ ॥ मग्नोऽनलगिरिस्तत्र, मूत्रसं- चरित्रम् चयपंकिले । प्रसह्य प्रेर्यमाणोऽपि, न पुरः पदमप्यगात् ॥२५॥ उवाच पालं गोपाल-स्ततो विज्ञाय तद्दलं । जेतुमिंद्रोऽपि नो वत्स, श्रीवत्सेश्वरमीश्वरः ॥२६॥ एतस्याच्छेतुमुत्संगा-जन्वंगी किल कः प्रभुः। सिंही सिंहांकपालोतः, केनापि किमु गृह्यते ॥२७॥ किं चासौ भाग्यवानायों, विनयी विक्रमी | क्रमी । सत्त्वी च तदसो वत्स, स्वसुर्नः प्रवरो वरः ॥ २८ ॥ अलं तदग्रतो गत्वा, वत्स व्यावय॑ते|ऽधुना । तथा च कार्य येनाय-मर्थस्ताताय रोचते ॥ २९ ॥ आर्यः प्रमाणमर्थेऽस्मि-नायेंण पर-10 | वानहं । इति व्यज्ञपयत्पालः, सादरः सोदरंप्रति ॥ ३० ॥ क्रमादवंतीमागत्य, ततस्तो तातचेतसि ।। स्थापयामासतुः सर्व-मर्थमेनं मनोगतं ॥ ३१ ॥ कियत्यपि व्यतीतेऽथ, घटीं पथि वसंतकः । द्वितीयां स्फोटयामास, करिप्रतिभयात्स्वयं ॥ ३२ ॥ इत्थं तृतीयां तुर्यां च, चिक्षेप स घटी क्षिती । शतयोजनमध्वानं, सा च भद्रवती ययो ॥ ३३ ॥ अत्रांतरे करेणुः सा, मार्गखेदाढ्यपद्यत । निमिः || | सानि निमित्त -रादिष्टानि हि नान्यथा ॥३४॥ तस्यां पतित्वा सुप्तायां, करेणो तत्र कानने । मार्ग- IR
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy