________________
मृगावती
॥३७॥
। इत्याक्षिप्तोऽपि स क्षोभं, न हि प्राप मनागपि ॥ २६ ॥ सोऽथ पार्थ इवैकोऽपि, कोपतः प्रतिपूरुषं । वर्षस्तेषां शरासार - मादिशत्कांदिशीकतां ॥ २७ ॥ घातयत्यनघाचार - मपि मां नृपपांसनः । इत्यमर्ष वहन्नेष - प्रतस्थे दिशमुत्तरां ॥ २८ ॥ अरण्यानीमतिक्रम्य, वनराजिविराजितं । माणिक्यमयमेकत्र, पश्यतिस्म सः पर्वतं ॥ २९ ॥ तस्य चूडाग्रमारूढां प्रौढशोकविसंस्थलां । रुदंती कांचिदत्युच्चै - वृद्धांस स्त्रियमैक्षत ॥ ३० ॥ स समीपमुपागत्य, ताम्रजल्पत्कृपेरितः । तारतारं कथंकारं, रु मातुरातुरं ॥ ३१ ॥ साऽवादीद्वत्स धत्से त्वं, तनूद्भवतुलां मम । कृपालुहृदयश्चासि तत्ते दुःखं निवेद्यते ॥ ३२ ॥ अयत्ननिर्मलै रते - राढथे वैताढ्यपर्वते । अस्ति सौराज्यसानंद, नगरं मणिनूपुरं ॥ ॥ ३३ ॥ तत्रासीत्वासिताराति-नृपतिर्मणिशेखरः । धृता विद्याधरैराज्ञा, यस्य शेषेव मौलिषु ||३४|| सतीषु प्राप्तरेखास्ति, पत्रलेखेति तत्प्रिया । उदित्वरयशश्चंद्र- चंद्रचूडस्तयोः सुतः ॥ ३५ ॥ नृपोऽथ प्राप पंचत्व - मायुषि यमीयुषि । चंद्रचूडस्ततस्तस्य, राज्येऽस्थाप्यत मंत्रिभिः ॥ ३६ ॥ तदानीं च स बालत्वा-न्न विद्यासाधनक्षमः । विद्यासिद्धेरभावाच्च. प्रभविष्णुर्न शत्रुषु ॥ ३७ ॥ विज्ञाय लील -
9
चरित्रम्
॥३७॥