________________
मृगावती
चरित्रम्
॥ १२६॥
| कधूकघूत्कार–प्रादुर्भूतभयाकुला । किं न स्मरसि दत्वाहं, बाहुं संधीरिता त्वया ॥ १०० ॥ अधि- शय्य त्वयास्तोणे, श्रस्तरे पल्लवैः पथि । तदा तमोभि(मायां, निशि निद्रामुपागमं ॥ १ ॥ शनै-N रित इतो देवी-त्यमात्याख्यातपद्धतिः । दिवा वर्द्धिष्णुतृष्णांधा-मपीप्यः सखि मां पयः ॥२॥ तवेत्थमुपचारेण, विधूतावपरीश्रमा । इहाहं मंत्रिणानीय, मुक्ता पद्मावतोमनु ॥३॥ क्लेशावेषमिम सर्व, सहमानातिदुस्सहं । सर्वथा मंत्रिणो वाणी, प्रमाणीकृतवत्यहं ॥ ४॥ पद्मावती सपत्नी मे, | शंकरायाः प्रयोगतः । चिकीर्षता पुनस्तेन, किं किं नापकृतं मम ॥५॥ मंत्रिणः परमास्त्रं हि, शंकरा कार्यसाधकं । विधीनेवंविधान् किं च, सैव कतुं प्रगल्भते ॥६॥ न्यासीकृता तवोत्संगे, मंत्रिन् पुत्री | मयाधुना । इति तातवचोऽप्येष, न सस्मार जरद्गवः ॥७॥
ऊचे कांचनमालाथ, मंत्रिणे देवि मा कुपः । यदेषः क्लिश्यते नित्यं, तवैव हितकाम्यया ॥८॥ मनोवाक्कायकर्माणि, तत्तबुद्धिप्रयोगतः । नित्यं व्यापारयत्येष, राज्योद्धरणहेतवे ॥९॥ राज्ञः पद्मावतीयोगा-त्वत्संयोगो हि निश्चितं । न ही प्राचीमनाश्लिष्य, भानुभुंक्ते दिनश्रियं ॥ १० ॥ पर्यालो
|॥१६