________________
मृगावती ॥ १३१ ॥
04
कुलाय गमनात्मकं । व्यवसायं नृपः स्वायं, पश्यन्नाप स्वमास्पदं ॥ ५५ ॥ जिनं नाभेयमभ्यर्च्य, स बाह्याभ्यंतरं शुचिः । नृपः समाधिमाधत्त, निस्तरंगमनाः पुरः ॥ ५४ ॥ एकतानमनस्यस्मिन्नकस्मादात्तविस्मयं । अदभ्रं गर्भगेहांत — रुद्योति ज्योतिरुययौ ॥ ५७ ॥ तेजःपुंजादतो मंजु - मूर्ति - स्फुर्त्तिपरः पुमान् । निर्गत्यात्यंतनिष्कंपं, साऽनुकंपस्तमभ्यधात् ॥ ५८ ॥ विष्टपाधिप तुष्टोऽस्मि, वृणीध्व वरमंजसा । एतस्य त्रिजगद्भर्त्तु — रुपास्तिफलमाप्नुहि ॥ ५९ ॥ जिनस्योपास्तिकर्तॄणा - मनुग्रहकरस्त्वहं । पत्तिरेतस्य संजातो, गोमुखः सन्मुखस्तव ॥ ६० ॥
अथ क्रमेण पारीणः, समाधेस्तोयधेरिव । स्थिरं व्यापारयामास नृपश्चक्षुरुपांततः ॥ ६१|| स लोलकुंडलं हारि-हारमंडितमेकतः । पुनस्तदेव जल्पतं, यक्षमध्यक्षमैक्षत ॥६२॥ प्रीतिमंतं तमालोक्य, जगाद जगतीपतिः । अस्ति यक्ष जिनोपास्तेः फलं निःश्रेयसश्रियः ॥ ६३ ॥ विवेकहेवाकवतां, न स्पृहा स्वैहिके फले । इत्युक्त्वा विरते राज्ञि, यक्षोऽभाषिष्ट सादरं ॥ ६४ ॥ अमोघं हि महीनाथ, देवतादर्शनं भवेत् । अतः किंचिद् वृणीष्वेति, यक्षोक्त्या सोऽब्रवीत्पुनः ॥ ६५ ॥ यद्येवं तत्समं देव्या,
चरित्रम्
॥ १३१ ॥