________________
मृगावती
॥१३०॥
440
श्रुनेत्रामिमां बाहो, गृहीत्वाहमिहागमं ॥ ४४ ॥ स्मरबंदीकृता तस्मै, ताम्यंतीयं तमीमिमा । कथं | | नेष्यति चिंता मां, दहत्यहह संप्रति ॥४५॥ लब्धव्यं सखि तल्लब्धं, देवताराधनाफलं । इहावस्थि| तया कार्य, तन्मया किमतःपरं ॥४६॥ .यामोऽधुनेति जल्पंती, प्रतिप्रद्योतनंदिनी | खेदात्पद्मावती | मंदं, चलतिस्म वनंप्रति ॥ ४७ ॥ युग्मं ॥ इच्छा सेत्स्यति ते नून-मुत्सुका सखि मास्मभूः । एवं | वासवदत्तापि, तामाश्वास्य सहाचलत् ॥ ४८॥ | तामनुपस्थिता साथ, कर्णेऽवोचत कांचनां । आर्यपुत्रोऽत्र स्वच्छंद-महो विहरते गिरी ॥४९॥ | | तदत्रैव क्वचिद्देशे, जिनेशपदपावनं । स किंचित्तीर्थमाश्रित्य, दुस्तपं तपते तपः ॥५०॥ तथेनं तपसा | क्लांत-मनन्यमनसं तु यत् । विलापविकलं चैव-मुपेक्षेऽहमलक्षणा ॥ ५१ ॥ ततः प्रक्षीणदा-| | क्षिण्यो, निस्त्रपैकशिरोमणिः । अत्यंतमकृतज्ञश्च, कोऽपि नास्त्येव मत्समः ॥ ५२ ॥ परं वाग्भिरमा| त्यस्य, गाढं निगडिता सती । पदमप्यधिकं नाहं, ददामि च वदामि च ॥ ५३ ॥ इति प्राप्तप्रियो- 81
॥१३०॥ दंत-परमानंदमानसा | मठमागत्य साऽनैषी-धर्मभ्यानेन तां निशां ॥ ५४॥ विहायसि विहंगाना, |