________________
मृगावती ॥१३२॥
साम्राज्यं पुनरस्तु मे । इति तस्य वचः श्रुत्वा, वक्तुं यक्षः प्रचक्रमे ॥ ६६ ॥ एवमस्तु परं राजन्, सुतां माहिष्मतीपतेः । विवाहय ततोऽवश्यं, देवीं राज्यं च लप्ससे ॥६७॥ परिणेतुर्यतो हेतु - जंगलक्ष्म्याः स्वलक्षणैः । पद्मावतीति व्याहृत्य, मंक्षु यक्षस्तिरोदधे ॥ ६८ ॥ तथैव तस्थुषस्तस्य, पश्यतो जिनपुंगवं । आनंदनिःस्यंदमयी, सा विभाता विभावरी ॥ ६९ ॥ व्यलीयत तमः सर्व, विष्टपस्य वनस्य च । पूर्वस्यां च तदास्ये च तुल्यमुल्लसिता द्युतिः ॥ ७० ॥ अक्षतैः शुचिभिः पूर्ण, स्वर्णस्थालमिवामलं । तदानीं रविमादाय, तं दिनश्रीरुपस्थिता ॥ ७१ ॥ स्ववस्तिक इवानंदी, प्रातविविधवीरुधां । आददानः सुमनसः पवमानस्तमभ्यगात् ॥ ७२ ॥ ततो वसंतकानीतै— विनीतः कुसुमैः प्रभोः । पूजां निवर्त्तयामास, मेदिनीशः प्रगेतनीं ॥ ७३ ॥ निशा वृत्तांतमावेद्य, सोऽन्वयुक्तं वसंतकं । रंगभंगे कृतेऽस्माभि - वेंत्सि तस्या बभूव किं ॥ ७४ ॥
विषण्णोऽथ महीनाथं, व्याजहार वसंतकः । तदैव देव विज्ञातं, स्वतः किंचिदिदं मया ॥ ७५ ॥ आये यथास्या वैवर्ण्य, दृशोर्वाष्पोद्गमो यथा । तथा मन्येऽपमानेन, मानसेऽस्याः कृतं पदं ॥ ७६ ॥
चरित्रम्
॥ १३२॥