________________
*
मृगावती ॥१३३॥
@
@
@
मनसाभीप्सितात्पत्यु-रवमानतया तया । न वेद्मि सेयं जीवंती, पुनदृश्येत वा न वा ॥ ७७ ॥ चरित्रम् अभ्युपेतेन पुष्पेभ्यः, प्रातरय वने मया । दृष्टा चंपकमाला च, भ्रमंती संभ्रमाकुला ॥७८॥ म्लाना चंपकमाले त्वं, मालेव किमु दृश्यसे । इति व्याजेन पृष्टासी, ममाचष्टेस्म गद्दं ॥ ७९ ॥ तदा नः स्वामिनी तेन, स्वामिना तेऽपमानिता। गत्वा निःसहमात्मानं, पर्यंके पर्यमुंचत ॥ ८० ॥ स्वतापेन प्रियस्यांत-र्दाहभीरुरिवाभितः । हृदयं स्रवदश्रांभः-संभारेण सिषेच सा ॥ ८१ ॥ तत्रापि रतिम- | प्राप्य, मृणालीमालभारिणी। सरोजस्रस्तरे शस्ते, निःसहांगमशेत सा ॥ ८२ ॥ उष्मलांगपरिष्वंग- 16 मात्रेणापि क्षणात्तया । स्रस्तरः स समस्तोऽपि, निर्ममे मुर्मुरोपमः ॥ ८३ ॥ चंद्रिका च जलार्दा च, नास्यास्तापमलंपतां । चंदनव्यजनी व्यक्तं, वीज्यमाना मया तदा ॥ ८४ ॥ सा न चक्रंद नोवाच, नाकुलं विललाप च । मोनेन केवलं तस्थौ, किंचिनिश्चित्य चेतसि ॥८५॥ नवीनशयनीयाय, याव-18
प्रत्यग्रपल्लवान् । आनयामि न पश्यामि, तावत्तां तत्र त्रस्तरे ॥ ८६ ॥ ध्रुवं तेनापमानेन, मलिनं । |हंत जीवितं । त्यक्तुं क्वापि प्रयातासौ, वोक्षे तत्तामितस्ततः ॥ ८७ ॥ ततोऽहमेवं संभाव्य, स्त्रीह-19
@
@
@
॥१०