________________
मृगावती
॥ १९ ॥
तमेवाहं, बालार्क इव तेजसा । अलंकरोति यस्यायं, बालः कुलनभस्तलं ॥ ९५ ॥ व्याजहाराथ तं दूर-प्रसारितभुजद्वयः । एह्येहि वत्स सर्वांगे, ममालिंग्य सुखं कुरु ॥ ९६ ॥ अहमेकं शतानीकं, पितरं वेद्मि नेतरं । इति वाचा निरायके, बालस्तं न तु चेतसा ॥ ९७ ॥ सुप्रतोपस्ततः प्राह, देव | दृग्दीयतामितः । देवीयं राज्यजीवातु - दिष्ट्याऽभ्येति मृगावती || ९८ || नव्यवानेयपाथेय - पा णिभिर्मृदुवाणिभिः । अन्वीयमाना पर्यश्रु – मुनिसोमंतिनोजनैः ॥ ९९ ॥ हृद्यवायफलोपेता, पुष्पमालोपशोभिनी । संवीतवल्कला साक्षा- इनश्रीरिव सव्रता || २०० || क्षणं स्निग्धे क्षणं रूक्षे, क्षणं धीरे क्षणं चले । ससंदेहतया देवी, न्यस्यंती च विलोचने ॥ १ ॥ चतुर्भिः कलापकं ॥
उन्मीलन्नेत्र पद्मेन, निश्छद्मप्रेमशालिना । राज्ञा हस्तगताऽज्ञायि, तामालोक्य त्रिलोक्यपि ॥ २ ॥ सुप्रतीपं नृपः प्राह, जीवंस्तद्विरहेऽप्यहं । दर्शयिष्ये कथं देव्या - स्त्रपावनतमाननं ॥ ३ ॥ ७ त्रपाकर्तृकमेतस्या, न मालिन्यं मनागपि । मदीयगर्भनिक्षेप - रक्षिणीयं स्थिता यतः ॥ ४ ॥ तद्गच्छ भद्र याचेथा - स्तथा विस्मृतिमागसां । मयि धत्ते यथा देवी, प्रसादविशदं मनः ॥ ५ ॥ सुप्र
चरित्रम्:
॥१९॥