________________
मृगावती
॥ २० ॥
तीपस्ततोऽभ्येत्य सादरः पादयो रुदन् । निपपात मृगावत्या - स्तापसीनां पुरस्तदा ॥ ६ ॥ साथ नाथविपद्वीप, सुप्रतीप श्रय श्रियं । इत्याश्वास्य तमुत्थाप्य, निजगाद सगद्गदं ॥ ७ ॥ बहुप्रियस्य भूभर्तु - रस्याहं यदि विमृता । तेजोमयः किमात्मीयः, सैष न्यासोऽपि विस्मृतः ॥ ८ ॥ | विदीर्णप्रायहृदये, श्रुत्वेदं मेदिनीपतौ । तथा चोदयंने पश्य – त्यानंदोत्फुल्ललोचने ॥ ९ ॥ यां दशामन्वभूदेव - स्तां विदुर्देवताः परं ॥ तदेषः खिद्यते देवि, प्रसादः क्रियतामतः ॥ १० ॥ इति विज्ञप्य सेनानी - रानीय शिरसि क्रमौ । सर्वेषां पश्यतां तस्या, निजकेशैरमार्जयत् ॥ ११ ॥ भिविशेषकं ॥ उपसृत्य ततः साश्रु - स्मेरप्रेमा मृगावती । स्निग्धचक्षुः सरोमांचा, जीवितेशमवोचत ॥ १२ ॥ लज्जया वाङ्मुखं नाथ, कुर्वीथा मुखमुन्मुखं । प्रेयसी नास्मि चेत्कस्मा - दियंतीं भुवमभ्यगाः ॥ १३ ॥ निजमेतज्जगज्जैत्रं, पुत्रपर्यायमंजसा । मत्प्राणरक्षणारक्षं कुर्वन्नुग्रहपात्रतां ॥ १४ ॥ ऊ सुतं च यत्र त्वं, सोत्कंठः सैष ते पिता । स्वयमागात्तदुत्तिष्ट, वत्स भक्त्या प्रणम्यतां ॥ १५ ॥ उत्थायोदयनः पादो, ववंदे च पितुर्मुदा । समारोप्य पिताप्यंक - मेनमानंदतोऽवदत् ॥ १६ ॥ महो
चरित्रम्
॥२०॥