________________
99964949494
॥ ३० ॥ ७
मृगावती नमानिन्यु — रारक्षपुरुषाः क्षणात् ॥ ४८ ॥ विज्ञापयेति राज्ञोक्तः, पुनरावृत्तजीवितः । सभासमक्षमक्षोभः, स जगाद कृतांजलिः ॥ ४९ ॥ देवाहमत्रवास्तव्यः, परदारसहोदरः । चिवचित्रकियाडवास- नैपुण्यो निपुणाभिधः ॥ ५० ॥ लक्ष्मीनिकेते साकेते, वृद्धा मातुः स्वसास्ति मे । विचित्राख्यैकपुला सा, पुत्रवन्मयि वत्सला ॥ ५१ ॥ तस्यामुत्कंठितोऽन्येद्यु — रुद्यानश्रेणिसंकुलं । संपदादत्तसंकेतं, साकेतं गतवानहं ॥ ५२ ॥ तत्रापि चित्रवैचित्र्य - तोषिताखिलपत्तनः । गत्वा बहिरहं गेह - मन्यदा यावदागमं ॥ ५३ ॥ तावन्मातुः स्वसा सा मे । तारं केनापि हेतुना । गाढोरस्ताडमस्तोक — शोकार्त्ता तत्र रोदिति ॥ ५४ ॥ किमद्य रुद्यते मात - रेवं तारस्वरं त्वया । इति पृष्टा समाचष्टे, सास्म मह्यं कथामिमां ॥ ५५ ॥
• अस्ति वत्स पुरेऽमुष्मि - निग्रहानुग्रहक्षमः । यक्षः सुरप्रियो नाम्ना, कानने कुसुमाकरे ॥५६॥ प्रतिवत्सरमेतस्य, चित्रकर्म विरच्यते । तूर्यत्रिकपवित्रे च चैत्रयात्रा महोत्सवे ॥ ५७ ॥ प्रतिवर्ष सौ वर्णै— विचित्रैश्चेन्न चित्र्यते । साकेतस्य समस्तस्य, मारिमारभते तदा ॥ ५८ ॥ चित्र्यते चेत्तमे -
चरित्रम्
॥३०॥