________________
॥ ११९॥
मृगावती क्य तन्वंगी-मपृच्छं स्मरविस्मया ॥ २३ ॥ देवि केयं जगन्नेत्र कैरवाकरकौमुदी । मन्ये निर्मा- चरित्रम्
ल्यमेतस्याः, सापि क्षीरोदनंदिनी ॥ २४ ॥ ___ अथासो कथयामास, देवी पद्मावती मम । पुष्पार्थ त्वयि यातायां, विप्रः कश्चिदिहाययौ ॥२५॥ उभाभ्यां स पुरंध्रीभ्या-मन्वितो मधुराकृतिः । साशीर्वादमवादीन्मा–मिदमादरवंधुरं ॥ २६ ॥ अनयोः कल्यरूपेयं, विद्धि कल्याणि मे स्वसा । इयमप्यपरा नित्य—मेतस्याः परिचारिका ॥२७॥ अस्याश्च नवलावण्य-पुण्यायास्तरुणत्वगः । वितोर्णविविधायासं, प्रवासं च गतः पतिः ॥ २८ ॥ तन्यासीकर्तुमन्यत्र, नेमा विश्वसिमि क्षणं । त्रियः श्रियश्च निक्षेप्तुं, न युक्तं यत्र कुत्रचित् ॥२९॥ एतस्यां च भवत्यां च, न विशेषं वहाम्यहं । वामदक्षिणयोरक्ष्णोः, कस्याप्यस्ति किमंतरं ॥३०॥
धात्रीशपुत्रि तत्ताव-दियं मम सहोदरा । सतीजनशिरोरत्नं, तवाभ्यणेऽवतिष्टतां ॥ ३१ ॥ यावदुToll जयिनीं गत्वा, सिद्धसर्वप्रयोजनः। पुनः प्रतिनिवत्तेंऽहं, तदस्तु स्वस्ति तेऽधुना ॥३२॥ ओमित्युक्तो ||११९॥
मया सोऽपि, यथाभिलषितं ययौ । प्रमोदसंविभागाय, त्वं चाहूतासि संप्रति ॥ ३३ ॥ तपोभिर्दुः II