________________
चरित्रम
मृगावती में स्तरैरद्य, सखि मंजरितं मम । सेयं सहचरी लब्धा, यन्नेत्रामृतसारणिः ॥ ३४ ॥ सखि चंपकमाले
त-न्मामिवैतामनारतं । वीक्षेथाः सर्वथा येन, गुणगृह्यासि सर्वदा ॥ ३५ ॥ वसंतकस्ततो दभ्यो, ॥१२०॥
विप्रो यौगंधरायणः । ध्रुवं वासवदत्ता सा, समं कांचनमालया ॥ ३६॥ मंत्रिन्नंकुरितस्ताव-लव | मंत्रमहीरुहः । इदानीं सुभगो भूया-पल्लवैः कुसुमैः फलैः ॥ ३७ ॥ ततश्चंपकमाला सा । पुनरेनमभाषत । सा ब्राह्मणी प्रियं स्मृत्वा, रुदतीह पुनः पुनः ॥ ३८ ॥ अत्यंतं रुदती सा मे, स्वामि- | नोमप्यरोदयत् । परदुःखावतारस्य, पात्रं हि महतां मनः ॥ ३९ ॥ अद्यापराह्नसमये, संबोध्य विविधोक्तिभिः । आनिनाय विनोदाय, तामिह स्वामिनी मम ॥ ४० ॥ इह प्रवेशः कस्यापि, न दातव्यस्त्वया सखि । इत्यादिदेश मां देवी, विशंतो गर्भवेश्मनि ॥ ४१ ॥ तदात्मना तृतीयास्ति, देवी देवगृहोदरे । अतो भद्र निषिद्धोऽसि, तन्मनागपि मा कुपः ॥ ४२ ॥ अथोत्तिष्ट सखे यामः । प्रवेश
श्चेन्न लभ्यते । किमत्रावस्थितेनेति, नृपोऽवादोवसंतकं । ४३ ॥ देव क्षणं प्रतीक्षख, शीतलेऽस्मिन् 18 शिलातले । विश्राम वितनोमीति, सोऽपि तं प्रत्यवोचत ॥ ४४ ॥ ततस्तस्मिन् शिलासीने, विशा
| ॥१२०॥