________________
मृगावती
॥१२१॥
| मोशोऽप्युपाविशत् । स्वैरालापान् मिथः सख्यो—मध्ये शुश्रुवतुश्च तो ॥ ४५ ॥ विरहक्लांतमात्मानं, चरित्रम्
व्यवस्थाप्य कथंचन । प्रद्योतदुहिता प्राह, महाबाहुतनूरहं ॥ ४६ ॥ तव प्रियसखि स्नेह-श्चापलाय | युनक्ति मां । तत्पृच्छामि वयः क्वैत-द्वनवासविधिः क्व च ॥ ४७ ॥ द्वयोर्विरोधिनोः कोऽय-मेकत्र | वसतिक्रमः । इदं नातिरहस्यं चे-तदा व्याहर्तुमर्हसि ॥ ४८ ॥ व्याजहार ततः स्नेहा-ड्डाहले|श्वरनंदिनी । किं तदप्यस्ति यद्गोप्यं, तवापि श्रूयतामिदं ॥ ४९ ॥ जानास्युदयनो नाम, कौशांब्या - | अवनीपतिः । विपंचीचातुरीचंचु, वत्सराजमुशंति यं ॥ ५० ॥ उपेत्य योगिनी जातु, शंकराख्या-10 | तिनिर्मलां । विस्तार्य तद्गुणश्रेणिं, बबंध हृदयं मम ॥५१॥ ततोऽभून्मेऽस्य रागेण, बद्धरंगं मन| स्तथा । यथासीत्प्रार्थना व्यर्था, पार्थिवानां मदर्थिनां ॥५२॥ तस्मै स्वयंवरां दातु-मीषतुः पितरौ | च मां । भाग्यैरनुगृहीतास्मी–त्यहं च मुदमावहं ॥५३॥ अथाकस्मान्मनोवेधां, वार्तामश्रोषमीदृशीं ।। यत्तस्य वसुधाभर्तुः, शुद्धांते वह्निरुत्थितः ॥ ५४ ॥ रहस्यहृदयं प्राण-सर्वस्वमिव पिंडितं । प्रिया ||
॥१२१॥ | वासवदत्तेति, या च तस्य निशम्यते ॥५५॥ तदा प्रदीपने तत्र, दग्धा सा नृपवल्लभा । दह्यादह्य-श