________________
मृगावती ॥ १२॥
विभागं न, कुर्वतिस्म हविर्भुजः ॥५६॥ कथं हरसि देवीं मे, पश्यतः पश्यतोहर । इत्याक्षिप्य क्षिती- चरित्रम् | शेन, शस्त्रैर्वह्निरहन्यत ॥५७॥ ततो विलप्य तामन्वग्, विविक्षन्नाशुशुक्षणिं । संबोध्य बहुशो बाहौ, धृत्वामात्यैः स वारितः ।। ५८ । सोऽथ राज्यं परित्यज्य, देशांतरगतः क्वचित् । ब्रह्मचारी शुचिः कांचि–देवतां वरिवस्यति ।। ५९ ॥ इत्युदंतं निशम्यांतः-शल्या मूर्छामुपागमं । कथंचित्प्राप चैतन्य-मुच्चैर्दुःखादरोदिषं ॥६०।। भवानकृत्रिमः शत्रु-ररे दैवसदैव मे । मय्यकस्मादवस्कंद, यदेवं | दत्तवानसि ॥ ६१ ॥ मम कोरकितः किंचि-न्मनोरथमहीरुहः । त्वया व्यसनसंपात-दुर्वातेन निपा| तितः ।। ६२ ।। तथापि तेन संगाय, परस्मिन्नपि जन्मनि । स्वयमूरीकृतो मृत्यु-मया कर्तासि | किं ततः ॥ ६३ ॥ एवं देवमुपालभ्य, मृत्युं निश्चित्य चेतसि । गत्वोपवनमारब्धं, यावदुबंधनं मया | ॥ ६४ ।। तावच्चंपकमालातो, विज्ञातमदुपक्रमौ । आतुरौ पितरावेत्य, साश्री मामेवमूचतुः ॥६५॥16) वत्से वत्सेश्वरेऽवस्था-मीदृशीमुपजग्मुषि । तवान्ये परिणेतारः, किं न संति महीभुजः ॥ ६६ ॥ १२॥ असदध्यवसायस्ते, कोऽयं पुत्रि त्रपाकरः । अन्ये त्वदथे ताम्यंति, वृथैव त्वं तु ताम्यसि ।। ६७ ॥