________________
३॥
मृगावती लिषु ॥ १७ ॥ बुभुजे भूभुजा तेन, रणारंभैर्भुवस्तलं । निःसपत्नमुरस्तस्य लीलयैव तया पुनः ॥१८॥ इत्थं विषय सर्वस्व - स्वादमानंदचेतसः । अजायत मृगावत्या, गर्भोऽत्यद्भुतभाग्यतः ॥ १९ ॥ इंदुगभैव दिक्पूर्वा, सुतिगर्भेव केतकी । आपन्नसत्त्वा सा राज्ञी, किंचिदुच्छ्वसिता बभौ ॥ २० ॥ वितीर्णवर्णसौभाग्यः, पांडुभावः कपोलयोः । तस्या गर्भप्रबंधस्य, विदधे विवृतिं तदा ॥ २१ ॥ कदाचिदुलसत्प्रोति-रंतःपुरमुपेयिवान् । खेदसादितसवांगी-मीक्षांचके नृपः प्रियां ॥ २२ ॥ सविकल्पमनल्पं त्वं प्रिये किमिति खिद्यसे । कीनासः कुपितस्तस्य यः स्यात्खेदयिता तव ॥२३॥ राज्ञी व्यज्ञपयदेव, नान्यखेदस्य कारणं । अत्यंत दुर्वचाः किंतु, दोहदो मेऽपराध्यति ॥२४॥ सद्यो निवेद्यतां किंतु, दुःपूरः कोऽपि दोहदः । इति निर्बंधतापृष्टा, व्याचष्टेस्म मृगावती ॥२५॥ आपूर्णायां जपावर्णे - राकर्णं रुधिरांबुभिः । कुर्वे वाप्यां यदि स्नानं, तदा स्यां पूर्णदोहदा ॥ २६ ॥ प्रतापं चानुरागं च, गर्भेऽस्मिन् सूचयत्ययं । दोहदस्तव देवीति, राजा राज्ञ्यै न्यवेदयत् ॥ २७ ॥ ततश्चादिक्षदाक्षेपा - दमात्यं मंत्रिपुंगवं । दुःकरो दोहदार्थश्च देवी च परिताम्यति ॥ २८ ॥ चिंतयोपायकं कंचि - नैषा दुःखायते यथा । इति मंत्री
TE
'
चरित्रम्
॥ ३ ॥