________________
मृगावती ॥ ६८ ॥
प्राप्य तिर्यक्षु जन्म सा । स्फीते विप्रकुले सापि पुत्रत्वेनोदपयत ॥ ७४ ॥ मृत्वा सुवर्णकारश्च तैरचं बहुधान्वभृत् । ततः कर्मवशात्तस्य, स्वसाऽजनि कनीयसी ॥ ७५ ॥ स तदानीं विनीतात्मा, तनुजन्मा द्विजन्मनः । पंचवत्सरदेशीयो, निदेशार्हश्च वर्त्तते ॥ ७६ ॥ ततः स तस्या बालाया, भृशं चपलतास्पृशः । मातापितृभ्यामादिष्टो, बाल्यत्वे क्रीडनकृते ॥७७॥ स पाणिना स्पृशन्नंग-मत्यंतमृदुचारिणा । क्रमात्तस्याः स्मरस्मेरं, गुह्यदेशमघट्टयत् ॥७८॥ सा रोदनं विसस्मार, सस्मार स्मरशर्मणां । तदा नरकरस्पर्शे, कूणिताक्षी बभूव च ॥७९॥ ततोऽसौ विदितोपायः सर्वदैवाकरोत्तथा । सांकुरित महानंदा, रोदनाद्विरराम च ॥ ८० ॥ तथा कुवैतमालोक्य, कदाचित्पितरौ भृशं । क्रोधावेशात्तमाक्रुश्य, निरवासयतां गृहात् ॥८१॥ अथ निर्वासितो दूर-मटवीषु परिभ्रमन् । स तैः प्राग्जन्मसंबद्धै – दस्युभिः समगच्छत ॥ ८२ ॥ ततः संमिलितेनाथ, विधेरादेशतस्तथा । चक्रे पंचशी पूर्णा, दस्यूनां तेन दस्युना ॥ ८३॥ बालिका साथ बाल्येऽपि, तीव्रवेदोदयात्ततः । दुराचारप्रवृत्ताऽभू - दहो कामस्य वामता ॥ ८४ ॥ सा कन्यापि कुशीलेति, पितृभ्यामपि तत्यजे । तरवोऽपि त्यजं -
चरित्रम्
॥ ६८ ॥