________________
मृगावत ॥ ५४ ॥
| सकामः सोऽपि भूपतिः ॥ १६ ॥ अस्या मुखस्य पीयूष - गभस्तिः प्रतिहस्तकः । बंधुः सुवर्ण वर्णस्य, | नेत्रयोर्मित्रमुत्पलं ॥ १७ ॥ अधरो विद्रुमः पाणी, पारिजातस्य पल्लवौ । स्तनौ कुंभौ सुरेभस्य, जघनं सिंधु सैकतं ॥ १८ ॥ असौ स्वर्लोकवास्तव्या, यद्वा पातालवासिनी । न मानुषीषु योषित्सु दृश्यते रूपमीदृशं ॥ १९ ॥ यस्याः प्रतिकृतिः केय - मित्यपृच्छत्ततो नृपः । तस्मै विस्मितचित्ताय, तथ्यमेषोऽप्यचीत् ||२०|| अस्ति देव नृदेवस्य शतानीकस्य वल्लभा । रूपेण विजितानंग- मृगनेत्रा मृगावती ॥ २१ ॥ सा मालवेश लेशेन, समालेखि पटे मया । नालेख्ये स्याद्यथावस्तु, विश्वकर्मापि कर्मठः || २२ || कर्णाभ्यर्णचरे तस्य वचस्युज्जयिनीपतिः । कुसुमेषोरिषुत्रातैर्विस्मृतात्माऽभवत्तदा ॥ २३ ॥ अचिंतयच्च संत्येव, शिवांगारवतोमुखाः । महादेव्यो ममाप्येता, वीतोपमवपुः श्रियः ||२४|| लक्षांशेनापि लक्ष्यंते, समाना नानया पुनः । नान्याः पर्वरजन्योऽपि श्रयंते कौमुदीश्रियं ॥ २५ ॥ अनया विकलं नांतः - पुरमंतःपुरं मम । न चंपकलता यत्र, काननं तन्न काननं ॥ २६ ॥ कयाचिद्वरवर्णिन्या, कामः कामं कृतार्थ्यते । स्पृष्टश्चंद्रिकया चंद्र-कांतः श्रवति नान्यथा ॥ २७ ॥
चरित्रम्
॥ ५४ ॥