SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥५३॥ | सुरप्रियं । स्मर्त्तव्यः सोऽनुवर्तव्यो, विपत्ताणक्षमो हि यः॥५॥ उपोषितः स तं भक्त्या, पर्युपासां बभूव चरित्रम् च । तस्मै प्रणयिने यक्षो, मंच साक्षाद्दभूव च ॥६॥ निजगाद च तं यक्षः, कथं वत्सासि दुःखितः। ततो वृत्तांतमेतस्मै, तं सर्व निपुणोऽभ्यधात् ॥ ७ ॥ तं प्रसन्नोऽथ निर्व्याजं, व्याजहार सुरप्रियः । चित्रयिष्यति हस्तस्ते, सव्यः सव्येतरो यथा ॥८॥ मम प्रसादतो वत्स, कलाकिसलयैर्नवैः । सच्छायो भव शाखीव, दग्धपल्लवितोऽधिकं ॥ ९॥ इत्युक्वांतर्हिते यक्षे, चिंतयामास चित्रकृत् । अकारणमहो राज्ञा, क्रूरेणापकृतं मम ॥ १० ॥ उपकारोऽपकारो वा, यस्य व्रजति विस्मृतिं । पाषाणसुहृदस्तस्य, 10 जीवतीत्यभिधा मुधा ॥ ११ ॥ उन्मूलयामि निर्मुलं, नदीरय इव द्रुमं । शतानीकं जडात्मापि, न || | चेत्तन्मे वृथा जनुः ॥ १२ ॥ नेयो मृगावतीरूपा-देव मृत्युं मयाप्यसौ । इत्यालोच्याऽचिरात्तस्याः, II | स पटे रूपमालिखत् ॥१३।। उच्छलत्कामकल्लोलः, स्त्रोलोलः सैन्यवारिधिः । श्रूयते शोर्यचंडश्च, चंड-10 प्रद्योतभूपतिः ॥ १४ ॥ तस्य दृष्टिपथं नीते, रूपेऽस्मिन् मे समीहितं । भविष्यतीति संचिंत्या-सावं- ॥५३॥ तीमगमत्पुरीं ॥ १५ ॥ युग्मं ॥ स तस्मै दर्शयामास, तामालेख्य मृगावतीं । निर्वर्ण्य वर्णयामास,
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy