________________
बुगापती
॥ १०९ ॥
तप्रसवैरिव । दीपिकानिकरैस्तस्या-मासीदीपोत्सवो नवः ॥ ११ ॥ किंतु भूभर्तुरभ्यर्ण-वर्त्तिनी कर दीपिका । विध्यातेति निमित्तज्ञः, सामंतैर्दुर्मनायितं ॥ १२ ॥ वपुः सिंहासने दृष्टिर्न सामंतकोटिषु । व्यापार्यत तदा राज्ञा, राज्ञ्यामेव मनः पुनः ॥ १३ ॥ चिरादुदयनो देवः स्वीयमास्थानमास्थितः । इति सर्वजनो याव - दासीदानंदमेदुरः ॥ १४ ॥ उच्छलत्तारपूत्कार - कातरीकृत कंचुकी । तावदंतःपुरे स्त्रीणां शुश्रुवे करुणध्वनिः ॥ १५ ॥ कृतांत महिषस्कंध — धूसरो धूमसंचयः । अथाकांडमिलद्यावा – भूमिर्भीमो व्यजृंभत ॥ १६ ॥ ततः किंशुकसंकाशो, वह्निरह्नाय दुर्धरः । ज्वालाजिह्वाशतैर्लोकं, लेलिहान इवोत्थितः ॥ १७ ॥ धूमसंभूतजीमूत—संगते गगनांगणे । लोलज्वालाकलापेन, सो विद्युल्लतायितं ॥ १८ ॥ धर्मराजमहाराज - दीपिका कलिका इव । अभ्रंलिहः स्फु रंतिस्म, स्फुलिंगततयस्तदा ॥ १९ ॥ उत्तरीयं परित्यज्य, ज्वलनज्वलदंचलं । प्रणेशुराकुलाः काश्चि - दंतःपुरपुरंध्रयः ॥२०॥ कंंत्यस्तात तातेति, कैश्चिदेत्य दयालुभिः । ज्वालामालाभिराश्लिष्टाः, कृष्टाः कष्टेन काश्चन ॥ २१ ॥ अनले तत्र कल्पांत - वह्निसब्रह्मचारिणि । क्षोभः सभायां भृभर्तुः, कोऽप्य
340
ॐ शिर छनक छ
जि
चरित्रम्
॥ १०९ ॥