________________
मृणावती
॥ ११० ॥
पूर्वोऽभवत्तदा ॥ २२ ॥ मूर्छामगच्छन् केऽप्यत्र, केऽप्यमद्यंत निर्दयं । विभूषणसहस्राणां मथने तु कथैव का || २३ || हहा दंदहते देवीं, हताशोऽयं हुताशनः । इति जल्पन्नधाविष्ट, वेगाद्योगंधरायणः ॥ २४ ॥ स गच्छन्नुत्सुकस्तेषां सर्वेषामेव पश्यतां । उद्यद्भिर्धूमकल्लोले – रालोलैः कवली - कृतः ॥ २५॥ ततः कोपाद्विकोशासि - राक्रोशंस्तं हुताशनं । जवाज्जगाम हा देवि, हा देवोति वदनृपः ॥ २६ ॥ रुषा हुताशं नृपति-र्जघान तरवारिणा । कार्योपायं न पश्यंति, कोपव्याकुलचेतसः ॥२७॥ वह्निविध्यापनायेव, प्रियाविरहकातरः । वाष्पोर्मिनिर्मितं पूर-मुज्झतिस्म स निर्भरं ||२८|| ॐ कालजिह्वालमालोक्य, कृशानुमकृशं ततः । दग्धां देवीं विनिश्चित्य, मूर्छतिस्म महीपतिः ॥ २९ ॥ अहो किमत्र भावीति, संभ्रांतेन रुमण्मता । पुनश्चैतन्यमानिन्ये, महींदुश्चंदनादिभिः ॥३०॥ विललाप महीपाल - स्ततो म्लानमुखांबुजः । हा देवि हा सरोजाक्षि, हा प्रिये हा प्रियंकरे ॥ ३१ ॥ इहापहाय मामेव - मेकाकिनमनागसं । क्क प्रयातासि रंभोरु, दूरं ताम्यत्ययं जनः ॥ ३२ ॥ अयि स्वच्छे समागच्छ, विरहस्याऽसहोऽस्म्यहं । अनेनाशनिपातेन, हृदयं मे विदीर्यते ||३३|| मनखिनि
4604 छ
चरित्रम्
॥ ११० ॥