________________
मृगावती / न मानस्य, मनागप्यस्मि गोचरः | जन्मतोऽपि न ते येन, प्रिये विप्रियमाचरं ॥३४॥ मयाद्यैव चिरा- चरित्रम
|चक्रे, कार्यासनपरिग्रहः । अस्मिन्नेवांतरे धिग्मां, मुमोषायमुषर्बुधः ॥ ३५ ॥ आतपस्तपनस्यापि, न | | कदापि यदस्पृशत् । तदंगं तव तन्वंगि, ददाह दहनः कथं ॥ ३६॥ पितरौ तो परित्यज्य, यन्मा
दृक्पतिराहतः । तस्येदृशं परीणाम-फलमासादितं त्वया ॥३७॥ त्वयारण्यपथे तस्मि-नहं सहचरः | कृतः। चलितासि कथं बाले, मागेंऽमुत्र मया विना ॥३८॥ अथवा किमुपालंभै-स्तवैवानेन वर्त्मना । || तन्वि त्वरितमेषोऽस्मि, त्वदंतिकमुपागतः ॥ ३९ ॥ अद्यापि येन जागर्ति, ममातिच्छेदकोविद । ज्वालाजालजटालोऽयं, सर्वभक्षी हुताशनः ॥४०॥ एवं विलप्य तत्रासो, झंपां दातुं प्रचक्रमे । प्रेयसी-19 विप्रयोगार्ताः, किं न कुर्वति रागिणः ॥४१॥ वसंतकेन मित्रेण, सेनान्या व रुमण्वता | उभाभ्यां स | तदा ताभ्यां, बलाहाह्वोरधार्यत ॥४२॥ युवाभ्यां मरणात्स्वामी, रक्षणोयः प्रयत्नतः । इति मंत्रिवचः स्मृत्वा, ताभ्यां चैवमबोध्यत ॥ ४३ ॥ देवाशुशुक्षणिः सोऽयं, देवीदहनकर्मणा । प्रत्यक्षः प्रतिपक्षोऽतः, सर्वथोच्छेदमर्हति ॥ ४४ ॥ स्त्रीहत्यापातकी ह्येष, चक्षुषापि निरीक्षितुं । नोचितः किं पुन