________________
मृगावती
॥ २६ ॥
& G
94694
मरप्रीति — विकस्वरविलोचनः । स पुरस्तात्तमस्तोकं, सभालोकमभाषत ॥ ४ ॥ दंतिनस्ते तुरंगास्ते, ते रथास्ते पदातयः । स कोशः सा च कौशांबी, तन्न यन्नास्ति वस्तु मे ॥ ५ ॥ तथापि बहु श्वानो, भवंतः कथयतु तत् । अन्यस्य भूपतेरस्ति, प्रशस्यं नास्ति यन्मम ॥ ६ ॥ इति राज्ञोदिते दूतः, पराकूतविचक्षणः । दृष्टपूर्वी पुरीः सर्वाः, कार्यसिद्धाभिधोऽभ्यधात् ॥ ७ ॥ देव देव किरीटाग्र - शि खाचुंबिपदद्वयः । महत्यै स्पृहयत्येव, पुरुहूतोऽपि ते श्रिये ॥ ८ ॥ यत्तेऽस्ति जगतीनाथ, न तदन्यस्य कस्यचित् । तरणेः किरणैः किं नु खद्योतादिषु विद्यते ॥ ९ ॥ केवलं देव ते हर्म्यं, हारिणा चित्रकर्मणा । विकलं तिलकेनेव, वधूवक्त्रं न राजते ॥१०॥ पुष्पशेखर भूभर्तुः, सोधालंकारकारणं । चित्रशालां समालोक्य, कांच्यां चित्रीयते जनः ॥ ११॥ तत्र चित्राद्भुतं दृष्ट्वा, विस्मितेनापि चेतसि । प्रस्तावे देवपादाना - मद्य विज्ञापितं मया ॥ १२ ॥ निशम्य तां गिरं राजा, जज्ञे चित्राय सस्पृहः | चित्रेणाऽप्यधिकं मन्ये, न क्षमंते क्षमाभुजः ॥ १३ ॥ ततश्चित्रकरश्रेणिं, स समाकार्य कार्यवित् || सभामंडपचित्रार्थ - मादिदेश विशारदः ॥ १४ ॥ तद्वृद्वैश्च यथायोगं, तत्र चित्रकरान्प्रति ॥
चरित्रम्
॥२६॥