________________
आगच्छ, तत्र मा गच्छ' इति कमपि जनं मा वद नो कथय । स्वचिन्तने परकीयो विकल्पो बाधको भवतीत्यर्थ: ।। ६ ।।
अर्थ- हे मुने! अपरिमित गुणों के समूह स्वरूप स्वशुद्धात्मा को सम्यग्दर्शन के साथ प्राप्त करो। 'तुम यहाँ आओ, वहाँ मत जाओ' ऐसा किसी से मत कहो।
भावार्थ- स्वचिन्तन में पर-विकल्प बाधक होता है। अतः उस ओर से दृष्टि हटाना श्रेयस्कर है ||६०।।
__ [६१] खविषयो यो नागतः समादृतश्च येन गतोऽनागतः ।
सत्यं यश्च नागतः किं बिभेति यते! स नागतः ।। (हे) यते! यः आगतः गतः अनागतः खविषयः येन च न समादृतः यः (च) ना सत्यं गतः, स किं नागतः बिभेति ? (न इति).
खविषय इति- हे यते! मुने! यः आगतः प्राप्तो वर्तमान इत्यर्थः। यो गतो व्यतीतो भूत इत्यर्थः। यश्च अनागतः अप्राप्तो भविष्यन्नित्यर्थः । खविषयः खानां स्पर्शनादीन्द्रियाणां विषयो भोग्यपदार्थः। येन च साधुना न समादृतः समादरेण गृहीतः। यश्च ना नरः सत्यं सते हितं सत्यं साधुहितकरं तत्त्वमिति शेषः। स किं नागतः सर्पतः किं बिभेति भीतो भविष्यति? अपि तु न। इन्द्रियविषयेभ्यो विरक्तः सम्यक् तत्त्वं च गतो नरो मृत्युसाधनेभ्यो न बिभेति सदा निःशङ्को निर्भयो भवतीति भावः ।।६१।।
___अर्थ- हे मुने! जो वर्तमान में प्राप्त हैं, पहले प्राप्त थे और आगे प्राप्त होंगे - ऐसे तीन काल सम्बन्धी इन्द्रियविषय. जिसके द्वारा आदर को प्राप्त नहीं हुए हैं। साथ ही, जो मनुष्य सत्य-यथार्थवस्तुस्वरूप को जान चुका है वह क्या नाग-सर्प से भयभीत होगा? अर्थात् नहीं।।६१।।
[६२] ते मुनिजनका नत्वा स्वरसं कलयन्ति कजनका न! त्वा ।
जनाः (नराः) पयः किं न त्वाऽऽस्वाद्यं पक्वपौंडकानत्त्वा।। हे न! ते मुनिजनकाः कजनकाः (ये) त्वा नत्वा स्वरसं कलयन्ति। जनाः (नराः) पक्वपौंडकान् अत्त्वा आस्वाद्यं पयः किं न (कलयन्ति) ? (तु पादपूत्यै)।
त इति- हे न! हे जिन! ते मुनिजनका मुनयश्च ते जनाश्च मुनिजनाः, मुनिजना एव मुनिजनकाः स्वार्थे क प्रत्ययः। कजनकाः कस्य सुखस्य जनका उत्पादकाः सन्तीति शेषः । ये त्वा भवन्तं नत्वा नमस्कृत्य स्वरसं आत्मरसं शुद्धात्मानुभवानन्दं कलयन्ति प्राप्नुवन्ति ।
(३१)