________________
विरत इति- अये क! हे ब्रह्मन्! हे परमात्मन्! अकामहा! अकं पापं तदेव अमः रोग: संसारदुःखकारकः तम् जहाति त्यजति इति अकामहाः तत्सम्बुद्धौ अकामहा! पापरोगत्यागिन् ! अथवा अकामहा! कामं मनोरथं हन्तीति कामहा, न कामहा अकामहा अमनोरथविघातकः तत्सम्बुद्धौ अकामहा! अथवा कामं मदनं जहाति इति कामहा, नये नीतौ तथा च नये आगमे विरतः प्रकर्षरूपेण रतः आगमभक्तिरतः अविदज्ञानं तया रहितः (अहं) कृता कामस्य मदनस्य हानिर्येन तस्मै अपगतमदनविकाराय, भगवते नम्रः प्रणतः सन् (अहम्) अमहान् न महान् लघुरित्यर्थः। कामदम् अभिलषितवस्तुप्रदम्। शतकं भावनाशतकनामधेयं काव्यम्। कामहानये कस्य आत्मनः अमा रोगा रागद्वेषादयः तेषां रागद्वेषादिविभावभावानां रोगाणां विनाशार्थं वदे देशयामि। 'को ब्रह्मानिलसूर्याग्नियमात्मद्योतबर्हिषु ।' 'कामः स्मरेच्छयोः काम्ये', 'नयो द्यूतान्तरे नीतौ' इति सर्वत्र विश्वलोचनः ।।४।।
. अर्थ- हे अकामहा! पापरूपी रोग को नष्ट करने वाले! हे क! हे ब्रह्मन् ! जो नीति विज्ञान अथवा आगम में विरत-विशेषरूप से लीन है अथवा नीति विज्ञान से रहित है, अविद् - अज्ञानी है, काम का नाश करने वाले के लिये विनम्र है और अमहान्- लघु है, ऐसा मैं कामहानि -आत्मसम्बन्धी रागादि रोगों की हानि के लिये कामद-अभिलषित पदार्थ को देने वाले भावनाशतक को कहता हूं ||४||
[५] यतो जिनपददर्शनं तदस्त्विह दर्शनशुद्धं दर्शनम् ।
दर्शयति सद्दर्शनं जगति जयतु जैनं दर्शनम् ।। दर्शनशुद्धं दर्शनं तत् अस्तु यतो जिनपददर्शनं (भवति) (इति) जैनं दर्शनं सदर्शनं दर्शयति (तत्) जगति इह जयतु ।
यत इति- दर्शनशुद्धं दर्शनमिव शुद्धं दर्शनशुद्धं दर्पणवन्निर्मलम्, दर्शनं सम्यग्दर्शनं तत् अस्तु भवतु यतो यस्मात् जिनपददर्शनं पञ्चकल्याणोपेततीर्थकरपदोपलब्धिः (भवति) (इति) जैनं जिनेन प्रोक्तं जैनं दर्शनं शास्त्रं सद्दर्शनं सन्मार्ग दर्शयति प्रकटयति (तत्) सम्यग्दर्शनम् इह जगति अस्मिन् लोके जयतु सर्वोत्कर्षेण वर्तताम्। 'दर्शनं दृशि दर्पणे । स्वप्ने वर्त्मनि बुद्धौ च शास्त्रधर्मोपलब्धिषु'। इति विश्वलोचनः।।५।। ___ अर्थ- वह सम्यग्दर्शन दर्पण के समान निर्मल हो जिससे जिनपद - तीर्थंकरपद का दर्शन होता है। इस प्रकार जैनदर्शन-जैनशास्त्र सम्यग्दर्शन को दिखाता है- प्राप्ति कराता है । जगत् में वह सम्यग्दर्शन जयवंत रहे ।।५।।
.(१४७)