________________
संज्ञातेति- संज्ञाततत्त्वोऽपि संज्ञातं सम्यगवबुद्धं तत्त्वं वस्तुस्वरूपं येन तथाभूतोऽपि गृही यदि अधनी धनरहितोऽस्ति तर्हि सः । अत्र लोके धनिकानुगामी धनिकान् अनुगच्छतीत्येवंशीलो दृष्टो विलोकितः । स्वामिनं वीक्ष्य दृष्ट्वा सुखाय सुखप्राप्तयै संचालितलूमकः संचालितपिच्छ श्वा यथा कुक्कुर इव आशु शीघ्रं दीनो वराकोऽस्तु भवतु। ज्ञाततत्त्वोऽपि निर्धनो गृही धनिकानुगामी दृश्यतेऽयं खेदस्य विषयोऽस्तीति भावः । । २५ ।।
अर्थ - वस्तुतत्त्व का ज्ञाता होकर भी निर्धन गृहस्थ सुख प्राप्ति के लिये उस प्रकार धनिकों का अनुगमन उनकी हाँ में हाँ मिलाता हुआ देखा गया है जिस प्रकार कि मालिक को देखकर सुख पाने की इच्छा से पूँछ हिलाता हुआ कुत्ता शीघ्र दीन हो जाता है ||२५||
[२६] निश्रेयसोऽस्मै मुनये पथीह,
सङ्गोऽप्यणुः संचरतेऽस्ति विघ्नः । वाताहतः पुच्छकमण्डलोऽपि, शिखण्डिने स्वस्य यथास्त्यरण्ये । ।
निश्रेयस इति - इह लोके निःश्रेयसो मोक्षस्य पथि मार्गे संचरते संचरणं कुर्वते, . अस्मै मुनये, अणुरप्यल्पपरिमाणोऽपि सङ्गः परिग्रहो विघ्नो वाधकोऽस्ति । तदेवोदाहरति - वाताहतो वातेन वायुना हतः पीडितः यथा स्वस्य निजस्य पिच्छकमण्डलोरपि कलापसमूहोऽपि, अरण्ये विपिने संचरते विहरते शिखण्डिने मयूराय विघ्नो वाधकोऽस्ति । । २६।।
अर्थ - यहां मोक्षमार्ग में संचार करने वाले इस मुनि के लिये अल्प भी परिग्रह उस तरह विघ्न करने वाला है, जिस तरह कि वन में विचरने वाले मयूर के लिये वायु से ताडित उसके निजी पिच्छों का समूह ||२६||
[२७] सङ्गस्तु सङ्गोऽस्तु समाधिकाले, संघस्य भारो यमिनेऽस्तु सङ्गः । वृद्धाय वा भूषणकानि कानि, लघूनि वस्त्राणि गुरूणि सन्तु ।।
(२५)