________________
सागारक इति - सागारको वा गृहस्थो वा अनगारको वा मुनिर्वा, कर्मक्षयार्थं त्रिविधकर्मविनाशार्थं धर्मे वीतरागसर्वज्ञदेवप्रणीते सदाचरणे निरतो लीनोऽस्तु। तदेवोदाहरति-स कृषकः कृषीवल: धान्याय धान्य प्राप्त्यै कार्यं कृषि सम्बन्धिकार्यं करोतु। तस्यैतत् कार्यं शस्यं प्रशंसनीयं भवति। तृणाय घासाय न प्रशस्यं किन्तु हास्यं हास्यकरं भवति। धर्माचरणस्य मुख्यप्रयोजनं कर्मक्षयोऽस्तीति भावः ।।५।।
अर्थ - सागार हो चाहे अनगार, उसे कर्मक्षय के लिये ही धर्म में लीन होना चाहिये (भोगोपभोग प्राप्ति के लिये नहीं) क्योंकि किसान खेती का कार्य अन्न के लिये करता है तो प्रशस्त है और घास के लिये करता है तो हास्य-उपहास का पात्र होता है।।५।।
[५१] पात्राय देयं विधिना प्रदाय, फलं प्रति स्याद् यदि यो निरीहः ।
सदा स दातास्तु सतां मतोऽस्ति, - सुखाय वै भागुभयत्र कीर्तेः ।। ५१।।
पात्रायेति - पात्राय योग्यपात्राय विधिना नवधाभक्तिपुरस्सरं देयं दातुं योग्यम् आहारादिकं वस्तु। प्रदाय दत्वा च यः फलं प्रति निरीहो निःस्पृहो यदि स्याद् तर्हि स दाता सदा सतां सत्पुरुषाणां मतः समादृतोऽस्तु भवतु। वै निश्चयेन स दाता सुखाय भवति । उभयत्र लोके कीर्तेर्यशसो भाक् भजतीति भाक् प्रापकः भवति ।।५१।।
अर्थ - योग्य पात्र के लिये विधिपूर्वक दान देना चाहिये और देकर यदि फल के प्रति निःस्पृह रहता है तो वह दाता सत्पुरुषों से समादृत होता है, उसका वह दान सुख के लिये होता है और वह दाता दोनों लोकों में कीर्ति का भाजन होता है ।।५१।।
[५२] दानं प्रशस्तं विनयेन साकं, नम्रो हि दाता बुधसेवितोऽस्तु । सुपीतदुग्धं स वमन् सुतोऽपि,
जनीं समानां न मुदा प्रपश्येत् ।। ५२।। दानमिति - विनयेन नम्रतया साकं सह दानं प्रशस्तं श्रेष्ठं कल्याणकरमिति यावत्। हि यतो नम्रो विनयशीलो दाता दानकरो बुधसेवितो बुधैः सेवितो ज्ञानिजनसमादृतोऽस्तु भवतु । सुपीतदुग्धं सुष्ठु पीतं सुपीतं, सुपीतं च तद् दुग्धं चेति
(३०७)