________________
[७२] दाता दयालुः परदुःखवैरी, स श्रेष्ठिनः स्यात् कृपणात् प्रशस्तः । अन्यान्यवित्तं ददतस्तु दातु
र्वरोऽप्यदाता नयमार्गगामी ।। दातेति - परदुःखवैरी अन्यदुःखापहर्ता दयालुः कारुणिकः ‘स्याद्दयालुः कारुणिकः' इत्यमरः। स प्रसिद्धः दाता दानकर्ता कृपणात् कणचूषात् श्रेष्ठिनो धनिकवरात् प्रशस्तः श्लाघ्यः अस्तीति शेषः। तु किन्तु अन्यान्यवित्तम्, अन्यान्यधनं ददतो वितरतो दातुः दानकर्तुरपेक्षया अदाता अदानकर्ता नयमार्गगाभी नीतिमार्गपथिकश्चेत् वर श्रेष्ठोऽस्ति।।७२।।
__अर्थ - पर के दुःख को दूर करने वाला दयालु दाता कंजूष सेठ से अच्छा है। और दूसरे लोगों के धन-वस्तु को देने वाले दाता की अपेक्षा नीतिमार्ग पर चलने वाला अदाता श्रेष्ठ है ।।७२।।
[७३] कनीयसा मे मनसा धृतो योऽमूर्तश्च विश्वैकगुरुर्विरागः ।
श्रद्धादृशा वाधिगतोऽप्यतोऽहं, • भक्तोऽपि धन्यो भगवांस्तु धन्यः ।।७३ ।।
कनीयसेति - यतश्च, अमूर्तः स्पर्शादिरहितः विरागो विश्वैकगुरु विश्वस्मिन् एकोऽद्वितीयो गुरू श्रेष्ठो दुर्भरश्च । यो मे मम स्तोतुः कनीयसा अतिशयेन अल्पं कनीयस्तेन अल्पपरिमाणेन मनसा हृदयेन धृतो भृतः श्रद्धादृशा वा श्रद्धव दृक् दृष्टिस्तया अधिगतोऽपि ज्ञातोऽपि । अतोऽस्मात् कारणात् अहं भक्तः स्तोतापि धन्यः श्रेष्ठः भगवांस्तु पारमैश्वर्यधारकोऽर्हत्परमेष्ठी तु धन्यः श्रेष्ठोऽस्त्येव । तत्र किं वक्तव्यम् ? ।।७३ ।।
अर्थ - अमूर्तिक, वीतराग और विश्व के अद्वितीय गुरु यतश्च मेरे तुच्छ हृदय के द्वारा धारण किये गये हैं अतः मैं भी धन्य हूं, भगवान् तो धन्य हैं ही ।।७३ ।।
[७४] योग्यो विनेयो गुरुणा श्रमेण, नीतो गुरुत्वं किमु विस्मयोऽत्र । पाषाणखण्डेऽपि विरागता सा, दिव्योदिता किं न हि शिल्पिनापि ।।