________________
छिद्रा
[९०] सुशास्तृयोगाद्धि जगत् सुखि स्यात्, स्याहुःखि भूरीतरतोऽप्यवश्यम्। तानाश्रितानौ नंयतेऽब्धितीरं,
छिद्रान्विता घोररसातलं चेत्।। सुशास्त्रिति - जगत् भुवनं सुशास्तृ योगात् शोभनः शास्ता शासकः सुशास्ता तस्य योगात् सम्बन्धात् हि निश्चयेन सुखि सुखसहितं स्यात। इतरतः कुशास्तुर्योगात् अवश्यं नियमेन भूरि अत्यधिकं दुःखि दुःखयुक्तं स्यात। तदेवोदाहरति - नौः तरणिः आश्रितान् स्वोपर्यारूढान् तान् जनान् अब्धितीरं सागरतटं नयते प्रापयति। चेत् यदि नौः छिद्रान्विता सविवरा स्यात् तर्हि घोररसातलं भयंकरपातालं नयते।। ९०।।
___ अर्थ - जगत् उत्तम शासक के योग से सुखी होता है और कुशासक के योग से अत्यधिक दुःखी होता है। जैसे नाव आश्रिजनों को समुद्र के तट पर पहुंचा देती है, यदि वही नाव छिद्र सहित है तो भयंकर रसातल में पहुंचाती है।। ९० ।।
.. . [९१] ज्ञातोऽनुभूतो यदि नात्मभावश्चेत्तस्य चर्चा कुरुते तपस्वी। पित्तज्वरात पवनार्दितं वा,
प्रलापयन्तं मनुते मनस्वी।। ज्ञात · इति - यदि यद्यपि आत्मभावः शुद्धात्मस्वभावो न ज्ञातो ज्ञानविषयीकृत न चानुभूतः संवेदनविषयीकृतः। तथापि तपस्वी साधुः चेत् यदि तस्य शुद्धात्मभावस्य चर्चा वार्ता करोति विदधाति तर्हि तं तपस्विनं मनस्वी शुद्धात्मज्ञानसंपन्नो जनः प्रलापयन्तं प्रलापं कुर्वाणं फ्तिज्वरात पितज्वरेणात पीडितं वाथवा पवनार्दितं पवनेन वातरोगेणार्दितं पीडितं पन मन्यते, शुद्धात्मनो ज्ञानमनुभवमन्तरेण तस्य चर्चा हास्यकरी भवतीति भावः ।। ९१।।
- अर्थ - यद्यपि आत्मपदार्थ को न जाना है, न उसका अनुभव किया है तथापि साधु यदि उसकी चर्चा करता है तो विचारशील मनुष्य उसे बकवाद करने वाला पितज्वर अथवा वात से पीडित मानता है।। ९१।।
[९२-९४] गौश्चर्यया पापततौ च मौनोsपृष्टोऽप्यमौनो निजधर्महानौ। भीतोsस्ति लोकैषणतोऽप्यभीलो.
(३२)