________________
वर्णस्येति
विश्वशास्त्रं समस्तशास्त्रं किल निश्चयेन वर्णस्य वर्णानामक्षराणां जातित्वादेकवचनं पात्रं भाजनमस्ति । तव भवतः रूपि सुन्दरं गात्रं शरीरं मलस्य विष्ठादेः पात्रमस्ति । हि निश्चयेन चिद्वस्तुमात्रं आत्मद्रव्यमात्रं सुखस्य शर्मणः पात्रमस्ति । एतद्भिन्नं सर्वं सुखस्यापात्रमस्ति । इति त्वम् अत्र लोके चेतसा मनसा स्मर स्मरणं कुरु । । अर्थ – समस्त शास्त्र वर्ण – अक्षरों के पात्र हैं, तेरा सुन्दर शरीर मल का पात्र है। एक चैतन्य वस्तु ही सुख का पात्र है इसके बिना सभी सुख के अपात्र है, ऐसा तू मन से स्मरण
९७ ।।
-
कर ।। ९७ ।।
-
[९८]
या दृष्टा स्त्री प्रकृतिः सामूर्तो यो नियमतः स पुरुषः । दृष्टौ स्त्रीपुरुषौ तु व्यवहारेणात्र समयोक्तौ ।।
येति या दृष्टा विलोकिता भवति मयेति शेषः सा स्त्री स्त्रीरूपा प्रकृतिः अस्ति । यश्च अमूर्तोऽदृष्टिगोचरो ऽस्ति स नियमतः पुरुषोऽस्ति । इत्थं समयोक्तौ शास्त्रोकौ स्त्रीपुरुषौ व्यवहारेण दृष्टौ । सांख्यदर्शने प्रकृतिः पुरुषश्चेति द्वे मूलतत्त्वे स्वीकृते । तयोर्यद् दृश्यते सा प्रकृतिः कथ्यते । स्त्रीलिंगत्वात्तस्यां स्त्रीति व्यवहारो भवति । अमूर्तत्वाद् यो न दृश्यते सः पुरुषः कथ्यते । पुंलिंगत्वान्तस्मिन् पुरुषः व्यवहारः क्रियते । समये सांख्यदर्शने यौ प्रकृतिपुरुषौ
प्रोक्तौ तौ व्यवहारेणैव प्रोक्तौ ।। ९८ । ।
अर्थ - जो देखी गई है वह स्त्री रूप प्रकृति है और जो अमूर्त है - दृष्टिगोचर नहीं है वह पुरुष है। शास्त्र में कहे गये जो स्त्री पुरुष हैं वे व्यवहार से ही कहे गये है । । ९८ । । [ ९९ ] क्षुद्रोsस्मि बोधेन बलेन वीर !
-
त्वदाश्रयात् स्याद् विभुता ध्रुवात्र । स्याद्गमे सा नदिका लघिष्ठा, नदीपतिं प्राप्य विमानपात्रा । ।
क्षुद्र इति हे वीर ! वर्धमानजिनेन्द्र ! अहं बोधेन ज्ञानेन बलेन वीर्येण च क्षुद्रो हीनोऽस्मि । त्वदाश्रयात् तवाश्रयात् अत्र मयि ध्रुवा निश्चिता विभुता विशालता स्याद् भवेत् । सा नदिका सरित् उद्गमे उत्पतिस्थाने लघिष्ठा असतिलघ्वी भवति किन्तु नदीपतिं सागरं प्राप्य विमानपात्रा विशिष्टप्रमाणभाजनं
-
स्यात् ।। ९९ ।
अर्थ - हे वीर ! मैं ज्ञान और बल से क्षुद्र हूं - हीन हूं, परन्तु आपके आश्रय से मुझमें निश्चित ही विभुता - विशालता हो सकती है। जैसे कि नदी उद्गम स्थान पर अत्यन्त लघु होती है, परन्तु समुद्र को पाकर वह विशाल प्रमाण का पात्र हो जाती है।। ९९ ।।
(३२८)