________________
[९५] अज्ञाः सुदूरा ननु तेभपि विज्ञाः, स्वं नापि पश्यन्ति चलोपयोगाः। स्वच्छेऽपि नीरे न मुखं सुदृष्टं,
वातेन लोले बुधभारतीयम्।। अज्ञा इति - अज्ञाः न जानन्तीत्यज्ञाः ज्ञानशून्याः ननु निश्चयेन सुदूरा अतिदूरवर्तिनः स्वहितादिति शेषाः। ये विज्ञा अपि , द्रव्यश्रुतोपलक्षिता अपि चलोपयोगाः चपलचेतसः सन्त स्वं स्वकीयशुद्धस्वभावं न पश्यन्ति नानुभवन्ति, तेभपि सुदूराः सन्ति। तदेवोदाहरति - वातेन वायुनान चले स्वच्छेऽपि विमलेपि नीरे सलिले मुखं वदनं न सुदृष्टं समीचीनतयावलोकितं न भवति। इयमेषा बुधभारती ज्ञानजनवागस्ति।। ९५।।
अर्थ - अज्ञानी जन तो निश्चयतः आत्महित से अतिदूर हैं ही परन्तु चंचल उपयोग वाले जो ज्ञानी भी स्वकीय आत्म तत्व को नहीं जानते हैं- नहीं अनुभवते हैं वे भी बहुत दूर हैं क्योंकि वायु से चंचल स्वच्छ जल में भी मुख अच्छी तरह नहीं देखा गया है, ऐसा ज्ञानी जनों का कहना है।। ९५।।
जन्या सुतस्ताडितको रुदन् सन् , सनीरनेत्रः सहसा हसन् सः। दृष्टोभनिमेषो प्रतिशोधभावो,
यथा यथाजातयतिः स्थिरीस्यात।। जन्येति - जन्या मात्रा ताडितकः ताडित एव ताडितकः स सुतः पुत्रः रुदन् रोदनं कुर्वन् सनीरनेत्रः सजसलनयनः सन्नपि सहसा झटिति हसन् हास्यं कुर्वन् दृष्टः। इत्थं तस्मिन् अनिमेषः स्पष्टः अप्रतिशोधभावोऽप्रतिकारभावो यथा दृष्टस्तथा यथाजातयतिर्दिगम्बरः साधुरपि स्थिरीस्यात् प्रतिशोधभावरहितत्वेन स्थिरीभवेत्।। ९६।।
अर्थ - माता के द्वारा ताडित पुत्र रोता है, आंसू बहाता है पर शीघ्र ही खिल उठता है उसमें स्पष्ट ही बदला न लेने का भाव जैसा देखा गया है वैसा ही निर्ग्रन्थ साधु में भी देखा जाना चाहिये, उसे भी स्थिर रहना चाहिये।। ९६ ।।
[९७] वर्णस्य पात्रं किल विश्वशास्त्रं, मलस्य पात्रं तव रूपिगात्रम्। चिद्वस्तुमात्रं हि सुखस्य पात्रं, सर्वं ह्यपात्रं स्मर चेतसात्र।।
(३२७)