________________
दैव इति - दैत्रे भाग्ये अनुकूले सति जगद् भुवनं मुदितं प्रसन्नं वा समुच्चये पापोदये सति भावात् स्वभावात् दुःखितमेव स्यात् । तदेवोदाहरति या लता वल्ली 'वल्ली तु व्रततिर्लता' इत्यमरः । छायिका छायायामनातपे भवा क्षायिका सा आत् दूरवर्तिन्यपि तस्य प्रसिद्धस्य रवेः सूर्यस्य आतापतो घर्मात् अतिमूर्च्छिता अतिम्लाना स्यात् । ' स्वभावो मूर्ध्नि वर्तते' इति भावः । । ७६।।
अर्थ - भाग्य के अनुकूल रहते हुए जगत् स्वभाव से प्रसन्न होता है और पापोदय के रहते हुए स्वभाव से दुःखी रहता है। जैसे छाया में उत्पन्न हुई लता दूरवर्तिनी होने पर भी सूर्य के संताप से अत्यधिक म्लान हो जाती है || ७६ ||
[७७] संप्राप्य चारित्रसुशीलयोगं,
ज्ञानं स्वयं याति सुपूर्णतां तत् । सुशाणयोगाद्धि मणेश्च मूल्यं,
काष्ठां गतं सज्जनकण्ठभागम् ।।
संप्राप्येति तत् प्रसिद्धं ज्ञानं चारित्रसुशीलयोगं चारित्रं च सुशीलं च चारित्रसुशीले ताभ्यां योगं सम्बन्धं संप्राप्य स्वयं स्वतः सुपूर्णतां याति प्राप्नोति । यथाख्यातचारित्रशैलेशित्वयोगेन सामान्यज्ञानमेव केवलज्ञानत्वेन परिणमति । तथैवोदाहरति - हि यतः सुशाणयोगात् उत्तमशाणयोगात् मणेर्माणिक्यस्य मूल्यमर्घः काष्ठां गतं सर्वोच्चदशां प्राप्तं । तेन च तत् सज्जनकण्ठभागं इभ्यजनग्रीवाप्रदेशं गतं प्राप्तं भवतीति शेष: ।। ७७ ।।
अर्थ - चारित्र और सुशील का संयोग पाकर साधारण ज्ञान भी पूर्णता को प्राप्त हो जाता है। जैसे उत्तम शाणोपल का संयोग पाकर मणि का मूल्य इतना बढ़ जाता है कि वह सज्जनों के कण्ठप्रदेश को प्राप्त हो जाता है ||७७ ||
-
[७८]
विद्वेषभावोऽपि समं स्वजात्या, कृतज्ञता सा शुनि जन्मतोऽस्तु, अत्यल्पनिद्रापि विधेर्विपाको,
विचित्र एवं गदितं सुविज्ञैः । ।
विद्वेषेति - शुनि सारमेये स्वजात्या स्वकीयजात्या - अन्यकुक्कुरैः समं सार्धं विद्वेषभावोऽपि द्वेषपरिणामोऽपि सा कृतज्ञता उपकारज्ञतापि, अत्यल्पनिद्रापि
(३१६)