________________
स्वल्पस्वापोऽपि जन्मतो जनुषोऽपि स्वभावादेवास्तु। एवमित्थंभूतः विधेः कर्मणो विचित्र इष्टानिष्टगुणसंयोगरूपो भवतीति सुविबुधैः गदितं कथितम्। कर्मोदयेनैव विचित्रगुणसंयोगो भवतीति भावः ।। ७८।।
अर्थ. - कुत्ता में जन्म से ही अपनी जाति के साथ विद्वेष भाव भी है, उसके कृतज्ञता गुण भी है और अल्पनिद्रा भी है। विद्वज्जनों ने कहा है कि उसका यह कर्म का विचित्र ही योग है ||७८।।
[७९] सिद्धे स्वकार्ये सति कारणानि, बाह्येतराणीति तृणीभवन्ति। सोपानमालापि विमोचिता सा,
प्रारोहितात्मोन्नत - सौधकेन।। सिद्ध इति - स्वकार्ये स्वप्रयोजने सिद्धे सति बाह्येतराणि बाह्याभ्यन्तराणि कारणानि। इति वक्ष्यमाणेन दृष्टान्तेन तृणीभवन्ति तुच्छानि , जायन्ते। प्रारोहितात्मोन्नतसौधकेन प्रारोहितं चटितमात्मन उन्नत उत्तुङ्गसौधः प्रासादो येन तेन सा उपयुक्ता सोपानमालापि निश्रेणीपङ्क्तिरपि कार्यसिद्धिपर्यन्तमेव शोभते, सिद्धे कार्ये तद्विकल्पो न कार्य इति भावः ।।७९।।
अर्थ - अपना कार्य सिद्ध हो जाने पर बाह्य और अन्तरङ्ग - दोनों प्रकार के कारण तृण के समान तुच्छ हो जाते हैं। जैसे अपने ऊंचे महल पर चढ़ चुकने वाले पुरुष के द्वारा सीढ़ियों की पङ्क्ति छोड़ दी जाती है।।७९।।
[८०] रागादिकं चात्मभवं दहेत् तत्, ध्यानं शुभं चात्मभवं समन्तात् । वनोद्भवो वातसुदीप्तदावो, ..
भस्मीकरोतीह वनं समस्तम् ।। रागादिकमिति - आत्मभवम् आत्मोत्पन्नं शुभं ध्यानं, आत्मभवं विभावदृष्ट्यात्मोत्पन्नं तत् रागादिकं विभावभावं दहेत् भस्मसात् कुर्यात्। तदेवोदाहियते -~इह जगति, वनोद्भवो वनोत्पन्नः, वातसुदीप्तदाव: वातेन वायुनां समुद्दीपितः प्रचण्डतां नीतो दावो दावानलः 'वने च वनवह्नौ च दवो दाव इहेष्यते' इत्यमरः। समस्तं निखिलं वनं काननं भस्मीकरोति सम्पूर्णतया दहतीति भावः ।। ८०।।
(३२०)