________________
[५९] सुखं सुखेषूत्तममात्मजं तत्, या पञ्चमी सा गतिरुत्तमास्तु । प्रभासु सर्वासु मणिप्रभेव, ज्ञानेषु विज्ञानमदोऽक्षयं स्यात् ।।
सुखमिति - सुखेषु शर्मसु तत् सुखमुत्तमं श्रेष्ठं भवति यद् आत्मजम् आत्मोत्थं भवति । तथा तेनैव प्रकारेण गतिषु सा गतिः उत्तमास्तु या पञ्चमी नारकतिर्यङ् - मानुषदेवातिरिक्तासिद्धानां भवति । सर्वासु निखिलासु प्रभासु दीप्तिषु मणिप्रभेव माणिक्यदीप्तिरिव ज्ञानेषु अदस्तत् दुर्लभतां विज्ञानं केवलज्ञानम् अक्षयमविनश्वरं स्याद् भवेत् ।। ५९ ।।
अर्थ - सुखों में आत्मा से उत्पन्न होने वाला सुख उत्तम है। गतियों में पञ्चमगति - सिद्धगति उत्तम है, सब प्रभाओं में मणि की प्रभा उत्तम है। इसी प्रकार सब ज्ञानों में वह अविनाशी केवलज्ञान उत्तम है ।।५९||
[६०] यथामतिः स्याच्च तथागतिः सा, यथागतिः स्याच्च तथामतिः सा । मतेरभावात्तु गतेरभावो,
द्वयोरभावात् स्थितिराशु शैवे ।।
यथेति ं- यथा यादृशी मतिः शुभाशुभरूपा स्यात् तथा तादृशी शुभाशुभरूपा सा गतिः स्यात्। यथा यादृशी च गतिः स्यात्तथा तादृशी मतिर्बुद्धिः प्रवर्तते । तु किन्तु गते : शुभाशुभरूपाया बुद्धेरभावात् गतेरभावो भबति । द्वयोर्गतिमत्योरभावात् शैवे सिद्धा आशु शीघ्रं स्थितिरवस्थानं स्यात् ।।६०।।
अर्थ - जैसे मति होती है वैसी गति होती है, जैसी गति होती है वैसी मति होती है, मति के अभाव से गति का अभाव होता है और गति -मति दोनों का अभाव होने से शीघ्र ही मोक्ष में स्थिति होती है ।। ६० ।।
[६१] जलाश्रिता मञ्जुलवीचिमाला, स्तम्भाश्रिप्तं तद् भवनं यथास्तु । ज्ञानादयो ये विनयाश्रिताः स्यु-, र्गुणास्तथा तेऽपि वृथान्यथा स्युः ।।
"
(३११)