________________
जिस तरह दूध में शीघ्र ही शक्कर विलीन हो जाती है। इसलिये सत्पुरुषों के द्वारा इन्द्रियां दमन करने के योग्य हैं ।।६५।।
[६६] ज्ञानान्न वृत्तान्न च भावनायाः,' सध्यानशक्तेस्तु निजात्मशुद्धिः । पृथक् कृतं किं पयसो घृतं तत्,
विनाऽग्निना बोपलतो हिरण्यम् ।। . ज्ञानादिति - निजात्मशुद्धिः निजस्य स्वस्यात्मनश्चेतनालक्षणस्य शुद्धिः पूतता ज्ञानान्न शास्त्रबोधान्न भवति । वृत्तात् चारित्रान्न भवति । भावनाया अनुप्रेक्षाया न भवति। तु किन्तु सद्ध्यानशक्तेः सच्च तद् ध्यानं च सद्ध्यानं धर्मशुक्लध्यानं तस्य शक्तेः सामर्थ्यात् भवति। तदेवोदाहरति-किमग्निना विना पावकमन्तरेण पयसो दुग्धात् तत् उपलभ्यमानं घृतमाज्यं 'सर्पिराज्यं घृतं हविः' इति धनंजयः। वाथवा उपलतः कनकपाषाणात् हिरण्यं स्वर्णं पृथक् कृतं विहितम् ?।। ६६ ।।
__ अर्थ - स्वकीय आत्मा की शुद्धि ज्ञान से नहीं होती, चारित्र से नहीं होती और भावना से नहीं होती किन्तु ध्यान से होती है। क्या अग्नि के विना दूध से घी और पाषाण से स्वर्ण को पृथक् किया गया है? अर्थात् नहीं। कर्मक्षय के लिये ज्ञान, चारित्र और भावना के साथ ध्यान का होना आवश्यक है।। ६६ ।।
[६७] विशेषसामान्यचितं सदस्तु, चितिद्वयेनाकलितं समं वै । एकेन पक्षेण न पक्षिणस्ते,
समुत्पतन्तोऽत्र कदापि दृष्टाः ।।
विशेषेति - सद् द्रव्यं विशेषसामान्यचितं विशेषश्च सामान्यं च विशेषसामान्ये ताभ्यां चितं व्याप्तं तन्मयम् अस्तु अत्र विशेषेण पर्यायः सामान्येन च द्रव्यं विवक्षितम्। सत् आत्मतत्त्वं वै निश्चयेन चितिद्वयेन चयनं चितिश्चेतनेत्यर्थस्तस्या द्वयेन ज्ञानचेतनादर्शनचेतनायुगलेन समं सार्धम् आकलितं सहितम् अस्ति। तदेवोदाहरति । अत्र लोके ते पक्षिणः खगाः किं एकेन पक्षण गरुता समुत्पतन्तः उड्डीयमानाः किं कदापि दृष्टा विलोकिताः? नैवेत्यर्थः।। ६८।।।
अर्थ - वस्तु सामान्य और विशेष से तन्मय है अर्थात् द्रव्य-पर्याय से युक्त है।
(३१४)