________________
अर्थ - व्रतों में शील-ब्रह्मचर्य श्रेष्ठ है, दमन में इन्द्रियों का दमन, उसमें भी रसनेन्द्रिय का दमन श्रेष्ठ है, दानों में अभयदान श्रेष्ठ है और धर्मों में अहिंसाधर्म श्रेष्ठ कहा गया है ||५४।।
[५५] ध्यानेषु शुक्लं च तपस्सु सत्सु, ध्यानं निधानं स्वनिधेः प्रधानम् । विसर्जनं तद्, मधुरस्य सद्भिः,
श्लाघ्यं रसेषु प्रथमं प्रणीतम् ।। * ध्यानेष्विति - ध्यानेषु. आर्त्तरौद्रधHशुक्लाभिधानेषु चतुर्षु ध्यानेषु 'उत्तमसंहननस्यैकाग्रचिन्ता निरोधो ध्यानमान्तर्मुहूर्तात्' इतिध्यानस्य लक्षणम्। शुक्लं तन्नामधेयं, सत्सु श्रेष्ठेषु तपसु प्रायश्चित्ताद्यभ्यन्तरतपश्चरणेषु ध्यानं स्वनिधेः आत्मनिधेः प्रधानं प्रमुखं निधानं कोषः। रसेषु रसत्यागेषु मधुरस्य रसस्य विसर्जनं त्यागः सद्भिः साधुभिः श्लाघ्यं प्रशंसनीयं प्रथमं प्रमुखं प्रणीतं कथितम् ।। ५५।। ___ अर्थ - ध्यानों में शुक्लध्यान, अन्तरङ्ग तपों में ध्यान आत्मनिधि का निधान कहा गया है तथा रसों में मधुररस् का त्याग सत्पुरुषों के द्वारा प्रशंसनीय प्रमुख त्याग कहा गया है ||५५।।
जिनागमेऽन्योन्यविरुद्धधर्मा, नया न मानाय तदंशतोऽतः । परस्परं तत् प्रतिकूलमास्तां,
कूलद्वयं वै सरितेऽनुकूलम् ।। ५६।। जिनागम इति - जिनागमे आहेतदर्शने, अन्योन्यविरुद्धधर्माः अन्योन्यं मिथो विरुद्धो धर्मः स्वभावो येषां ते तथाभूताः परस्परं विरुद्धधर्म नित्यानित्यादिकं गृह्णन्तो नयाः एकदेशग्राहिणःश्रुतज्ञान-विकल्पविशेषास्तदंशतो वस्त्वेकदेशतः मानाय समादराय न सन्तीति शेषः। अतोऽस्मात् परस्परं प्रतिकूलं विरुद्धम् आस्तां, किन्तु वस्तुस्वरूपप्रतिपादने विरुद्धनययोरपि सार्थक्यं वर्तते। यथा कूलद्वयं तीरद्वयं परस्परं प्रतिकूलं सदपि वै निश्चयेन सरिते तरङ्गिण्यै अनुकूलं विद्यते ।। ५६ ।।
अर्थ- जैन-सिद्धान्त में परस्पर विरुद्ध नय सन्मान के लिये नहीं माने गये हैं क्योंकि वे वस्तु के एक अंश को ग्रहण करते हैं अत: वे परस्पर विरुद्ध भले ही रहें परन्तु
. (३०६)