________________
सुपीत दुग्धं सुपीतक्षीरं वमन् उद्गिरन् स मातृप्रियः सुतोऽपि शिशुरपि समानां मानेन सहिता तां सग जनीं मातरं मुदा हर्षेण न प्रपश्येत् नावलोकयेत् । साहंकारसावित्रीपायितं दुग्धं सुताय न रोचतेऽतः स तद्वमतीत्यर्थः ।। ५२ । ।
अर्थ - विनय के साथ दिया हुआ दान अच्छा होता है, क्योंकि विनम्र दाता ज्ञानिजनों से सेवित होता है। अच्छी तरह पिये दूध को उगलता हुआ शिशु भी मानिनी को हर्ष से नहीं देखता है ।। ५२ ।।
[५३] चिन्तातुरोऽजस्रमयं ह्यगारी द्विवल्लभो हा मरणं तथास्तु । परस्परं धारितवैरभावैः, शिष्यैर्गुरुः संयतकस्तथास्तु ।।
चिन्तेति - हि निश्चयेन, अयमेष, अगारी गृहस्थः अजस्रं सततं, चिन्तातुरः चिन्तया दुर्ध्यानेन आतुरो दुःखितो भवति । द्वे वल्लभे यस्य स द्विवल्लभो द्विपत्नीको गृही मरणं तथास्तु मरणवत् कष्टमनुभवतु । हा इति खेदे । परस्परं मिथः धारितवैरभावैः धारित वैरभावो यैस्तैरन्योऽन्यं कलहाय मानैः शिष्यैर्मोढ्यै: 'दीक्षितं मौढ्यं शिष्यं च ' इति धनंजयः । गुरुः आचार्यः संयतकः संयत एव संयतकः संयमी, अपि तथास्तु द्विपत्नीकगृहीव चिन्ता भवतु ।। ५३ ।।
अर्थ - निश्चय से यह गृहस्थ निरन्तर चिन्ता से दुःखी रहता है। फिर दो पत्नी वाला गृहस्थ हो तो उसका मानो मरण ही है। इसी प्रकार परस्पर वैर रखने वाले शिष्यों संयमी गुरु भी निरन्तर चिन्ता से दुःखी रहता है ||५३||
[५४]
व्रतेषु शीलं च दमो दमेषु, खानां वरोऽयं रसनेन्द्रियस्य ।
दानं तु दानेष्वभयाह्वयं वै, धर्मेषु धर्मो गदितोऽप्यहिंसा ।।
व्रतेष्विति - व्रतेषु अहिंसादिषु 'हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम्' इति व्रत लक्षणम् । शीलं ब्रह्मचर्यं प्रधानमिति शेषः । दमेषु वशीकरणेषु खानाम् इन्द्रियाणां दमो वशीकरणं वरः श्रेष्ठः। तत्र च रसनेन्द्रियस्य जिह्वेन्द्रियस्य अयं दमो वरः । तु किन्तु दानेषु त्यागेषु अभयाह्वयं अभयाख्यं प्राणिरक्षणरूपं वरं श्रेष्ठम् । धर्मेषु वै निश्चयेन अहिंसाधर्मो बरं श्रेष्ठ गदितः कथितः । अप समुच्चयार्थः । । ५४ । ।
(३०८)