________________
अक्षार्थेति - अक्षार्थेषु हृषीकविषयेषु रागः स्नेहः भवदुःखदाता सांसारिकदुःखानां प्रदाता। धर्मानुरागः धर्मे सुकृतकार्येऽनुरागः प्रेमा अभवसौख्यदाता निर्वाण सुखानां प्रदायकोऽस्ति । मित्र! अये सुहृद्! प्रभात-रागे प्रत्यूषरक्तवर्णे सान्ध्यरागे दिवसान्तलोहितवर्णे च किं महत् विपुलं अन्तरं वैशिष्ट्यं न वर्तते? 'इति शृणु समाकर्णय। प्रभाते प्राच्यां दृश्यमानलालिम्नः फलं सूर्योदयो भवति सायंच प्रतीच्या दृश्यमान लालिगःफलं तिमिरप्रसारो भवतीति भेदो वेद्यः ।। ३७।।
___ अर्थ - इन्द्रियविषयसम्बन्धी राग सांसारिकदुःख का देने वाला है और धर्मसम्बन्धी राग सांसारिकसुख का देने वाला है। सुनो मित्र! क्या प्रभात की लाली और संध्या की लाली में बड़ा अन्तर नहीं है ? अवश्य है ।।३७।।।
[३८] उन्मत्ततोऽ प्यत्र सुपीतमद्यात्, सुपीडितात् वृश्चिकदंशनेन । कपेश्च चित्तं चपलं नराणां,
धन्यो यमी यस्य लयं गतं तत् ।। उन्मत्तत इति - अत्र जगति नराणां मनुष्याणां चित्तं चेतः उन्मत्ततः प्रकृत्या विक्षिप्तात् सुपीतमद्यात् सुपीतं मद्यं मैरेयं येन तस्मात्, वृश्चिकदंशनेन वृश्चिकस्य पिच्छविषस्य दंशनेन सुपीडितात् प्राप्ताधिककष्टात् कपेनिरादपि चपलं चञ्चलं भवति । यमी मुनिस्तु धन्यः श्लाघनीयोऽस्ति यस्य तत् चित्तं लयं गतं चापल्यरहितं जातम् ।।३८।।
____ अर्थ - इस जगत् में मनुष्यों का चित्त उस वानर से भी अधिक चञ्चल है जो स्वभाव से पागल है, जिसने मदिरा पी ली है और विच्छू के काटने से अत्यन्त पीडित है। वह मुनि धन्य है जिसका कि चित्त विलीनता को प्राप्त है-स्थिर है ||३८।।
[३९] तथा प्रतीतिस्तु सुखस्य तत्र सुखं न लेशं निजमोहभावात् । अर्थेषु खानां जलमन्थनेन,
फेनानुभावो हि तदाप्युदेति ।। तथेति - • निजमोहभावात् निजे स्वात्मनि मोहभावादज्ञानभावात्। खानामिन्द्रियाणां 'खमिन्द्रियं हृषीकं च श्रोतोऽक्षं करणं विदुः' इति धनंजयः। अर्थेषु
(30)