________________
[३५] भोगानुवृत्तिर्विधिबन्धहेतुर्योगानुवृत्तिर्भवसिन्धुसेतुः । बीजानुसारं कलितं फलं तत्,
किं निम्बवृक्षे फलितं रसालम् ।। .. भोगेति - भोगानुवृत्तिः भोगानां पञ्चेन्द्रियविषयाणाम् अनुवृत्तिरनुगमनं विधिबन्धहेतुर्विधीनां कर्मणां बन्धस्य हेतुः कारणम्। योगानुवृत्तिश्च योगो विषयत्यागस्तस्यानुवृत्तिरनुगमनं भवसिन्धुसेतुः भवः संसार एव सिन्धुः सागरस्तस्थ सेतुः पुलिनो वर्तते। तदेवोदाहरति तत् प्रसिद्धं फलं बीजानुसारं कलितं प्राप्तं दृश्यते। किं निम्बवृक्षे पिचुमर्दपादपे रसालम् आनं फलितं समुद्भूतं? नैव समुद्भूतम् ।।३५।। . अर्थ - भोगों का अनुगमन कर्मबन्धन का कारण है और योग का अनुगमन संसार-सागर का पुल है। जगत् में बीज के अनुसार ही फल प्राप्त होता है|क्या नीम के वृक्ष पर आम फलता है ? अर्थात् नहीं।।३५।।
[३६] त्यक्तस्तु सङ्गने गतमोहभावैस्तत्रानुभूतो न हि कष्टलेशः । स्निग्धत्वहीनात् पलितं च पत्रं,
तत् पादपाद् वा पतितं स्वभावात् ।। त्यक्तेति - गतमोहभावैः गतो नष्टो मोहभावो ममत्वादिपरिणामो येषां तैः सङ्गः परिग्रहस्त्यक्तः समुज्झितः किन्तु तत्र त्यागे तैः कष्टलेशः दुःखलवो न हि नैवानुभूतः भुक्तः । तदेवोदाहियते-पलितं पक्वं पत्रं पण स्निग्धत्वहीनात् स्निग्धत्वेन सरसत्वेन हीनो रहितस्तस्मात् पादपाद् वृक्षात् स्वभावात् निसर्गात् पतितं भवति। वेति उपमार्थे ।।३६।।
अर्थ - मोहभाव से रहित मनुष्यों के द्वारा जो परिग्रह छोड़ा गया है उसमें उन्होंने रंच मात्र भी दुःख का अनुभव नहीं किया है। पका पत्र जैसे सरसता से रहित वृक्ष से टूट कर पड़ता है तो वह स्वभाव से पड़ता है ।।३६।।
[३७] अक्षार्थरागो भवदुःखदाता, धर्मानुरागोभवसौख्यदाता । प्रभातरागे शृणु सान्ध्यरागे, किमन्तरं तत्र महन्न मित्र! ।।
(३००)