Book Title: Panchshati
Author(s): Vidyasagar, Pannalal Sahityacharya
Publisher: Gyanganga

View full book text
Previous | Next

Page 320
________________ मानसं च कायश्चेति वाङ्मानसकायाः ते च ते योगाश्च तैः नोद्घाटयन्ति न प्रकाशयन्ति। सन्तः परेषां निन्दां न कुर्वन्तीति भावः ।।४।। अर्थ - दयारूप घर के निवासी, शान्तपरिणामी सज्जन, स्वयं दृष्ट और सुने दूसरों के दोषों को मन-वचन- कायरूप योगों से स्वप्न में भी प्रकट नहीं करते हैं।।४१।। . [४२] भवाभिमुक्ता न भवे विभावे, पुनश्च भीमेऽबतरन्ति दु:खे । तैलं तिलं तच्च घृतं तु दुग्धं, पूर्वस्वरूपं न पुनः प्रयाति ।। .... _भवेति - भवाभिमुक्ता भवात् संसारात् अभिमुक्ता दूरंगताः सिद्धपरमेष्ठिनः पुनश्च भूयोऽपि विभावे विभावरूपे भवे संसारे पर्याये वा भीमे भयंकरे दुःखे च नावतरन्ति नावतीर्णा भवन्ति । तैलं स्नेह तिलं, तत्प्रसिद्धं घृतं सर्पिश्च ‘सर्पिराज्यं घृतं हविः' इति धनंजयः। दुग्धं क्षीरं पूर्वस्वरूपं प्राक्तनरूपम् इदं तिले घृते च योज्यम् । पुनर्भूयः न प्रयाति न प्राप्नोति। यथा तैलं पुनस्तिलं न याति यथा घृतं च पुनर्दुग्धं न प्रयाति तथा जन्ममरणात्मकसंसारान्मुक्ताः पुनः संसारं नायान्तीति भावः ।।४२।। ___अर्थ - संसार से मुक्त सिद्धपरमेष्ठी अशुद्ध भव-संसार अथवा पर्याय और भयंकर दुःख में पुनः नहीं आते जैसे तैल अपने पूर्वरूप तिल को और घी अपने पूर्व रूप दूध को प्राप्त नहीं होता ||४२।। . . [४३] लुब्धः स मुग्धो विषयेष्वघात्मा, सम्प्राप्तदृष्टिस्तु ततोऽस्तु भिन्नः । करोतु नृत्यं मृदुमोदकान् वा, __ खादन् स बालोऽत्र तथा न वृद्धः ।। - लुब्ध इति - विषयेषु पञ्चेन्द्रियभोगेषु लुब्धः समासक्तः स मुग्धो मूढः 'मुग्धः सुन्दरमूढयोः ' इत्यमरः। अघात्मा पापात्मा अस्तु । तु किन्तु सम्प्राप्तदृष्टिः सम्प्राप्ता दृष्टिर्येन सः सविवेको जनः। ततः पूर्वोक्तम् भिन्नः पृथग्भूतोऽस्तु। सम्यग्दृष्टिर्विषयानुपभुजानोऽप्यन्तरङ्गतो विरक्तत्वात्तादृक् पापात्मा न भवतीत्यर्थः तदेवोदाहरति - मृदुमोदकान् सुकोमललड्डुकान् खादन् अदन् बालः नृत्यं करोतु नृत्येन .. (३०३).

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370