________________
मानसं च कायश्चेति वाङ्मानसकायाः ते च ते योगाश्च तैः नोद्घाटयन्ति न प्रकाशयन्ति। सन्तः परेषां निन्दां न कुर्वन्तीति भावः ।।४।।
अर्थ - दयारूप घर के निवासी, शान्तपरिणामी सज्जन, स्वयं दृष्ट और सुने दूसरों के दोषों को मन-वचन- कायरूप योगों से स्वप्न में भी प्रकट नहीं करते हैं।।४१।।
. [४२] भवाभिमुक्ता न भवे विभावे, पुनश्च भीमेऽबतरन्ति दु:खे । तैलं तिलं तच्च घृतं तु दुग्धं,
पूर्वस्वरूपं न पुनः प्रयाति ।। .... _भवेति - भवाभिमुक्ता भवात् संसारात् अभिमुक्ता दूरंगताः सिद्धपरमेष्ठिनः पुनश्च भूयोऽपि विभावे विभावरूपे भवे संसारे पर्याये वा भीमे भयंकरे दुःखे च नावतरन्ति नावतीर्णा भवन्ति । तैलं स्नेह तिलं, तत्प्रसिद्धं घृतं सर्पिश्च ‘सर्पिराज्यं घृतं हविः' इति धनंजयः। दुग्धं क्षीरं पूर्वस्वरूपं प्राक्तनरूपम् इदं तिले घृते च योज्यम् । पुनर्भूयः न प्रयाति न प्राप्नोति। यथा तैलं पुनस्तिलं न याति यथा घृतं च पुनर्दुग्धं न प्रयाति तथा जन्ममरणात्मकसंसारान्मुक्ताः पुनः संसारं नायान्तीति भावः ।।४२।।
___अर्थ - संसार से मुक्त सिद्धपरमेष्ठी अशुद्ध भव-संसार अथवा पर्याय और भयंकर दुःख में पुनः नहीं आते जैसे तैल अपने पूर्वरूप तिल को और घी अपने पूर्व रूप दूध को प्राप्त नहीं होता ||४२।। . .
[४३] लुब्धः स मुग्धो विषयेष्वघात्मा, सम्प्राप्तदृष्टिस्तु ततोऽस्तु भिन्नः ।
करोतु नृत्यं मृदुमोदकान् वा,
__ खादन् स बालोऽत्र तथा न वृद्धः ।। - लुब्ध इति - विषयेषु पञ्चेन्द्रियभोगेषु लुब्धः समासक्तः स मुग्धो मूढः 'मुग्धः सुन्दरमूढयोः ' इत्यमरः। अघात्मा पापात्मा अस्तु । तु किन्तु सम्प्राप्तदृष्टिः सम्प्राप्ता दृष्टिर्येन सः सविवेको जनः। ततः पूर्वोक्तम् भिन्नः पृथग्भूतोऽस्तु। सम्यग्दृष्टिर्विषयानुपभुजानोऽप्यन्तरङ्गतो विरक्तत्वात्तादृक् पापात्मा न भवतीत्यर्थः तदेवोदाहरति - मृदुमोदकान् सुकोमललड्डुकान् खादन् अदन् बालः नृत्यं करोतु नृत्येन
.. (३०३).