________________
मृदुमोदकानदन् मोदं प्रदर्शयतु वृद्धः स्थविरो न। वा औपम्ये ।।४३ ।। - अर्थ - विषयों में लुभाया मोही मनुष्य पापी है परन्तु सम्यग्दृष्टि उससे भिन्न हो। जैसे कोमल लड्डुओं को खाता बालक नृत्यं करता है, वृद्ध नहीं।।४३।।
[४४] न नाग्न्यमानं भवमुक्तिहेतुश्चित्तस्य नैर्ग्रन्थ्यमपीति शास्त्रम् । . . गवादयो ये पशवोऽपि नग्ना
स्वस्ताः कथं स्युः शिवमन्यथा स्यात् ।। नेति - नाग्न्यमानं नाग्न्यमेव नाग्न्यमानं केवलं नग्नत्वं भवमुक्तिहेतुः भवान्मुक्ति र्भवमुक्तिस्तस्या हेतुः कारणं न। चित्तस्य मनसः नैर्ग्रन्थ्यं निर्ग्रन्थस्य भावो नैर्ग्रन्थ्यं निष्परिग्रहत्वमपि हेतुरस्तीति शास्त्रमागमोऽस्ति। शारीरिक ननत्वेन सह मनसोऽपि नग्नत्वं मोक्षहेतुरस्तीसि जिनागमो वदतीति भावः । अन्यथा एवं न स्यात् चेत्तर्हिये गवादयो वृषभप्रभृतयः पशवोऽपि नग्नाः सन्ति ते त्रस्ता दुःखिनः कथं स्युः तेषामपि शिवं श्रेयः स्यात् ।। ४४।।
अर्थ - केवल नग्नता ही मोक्ष का कारण नहीं है किन्तु मन की निर्ग्रन्थता भी उसके साथ कारण है ऐसा शास्त्र में कहा है। यदि ऐसा न हो तो जो बैल आदि पशु नग्न हैं वे दुःखी क्यों हैं ? उन्हें भी शिव-कल्याण अथवा मोक्ष प्राप्त होना चाहिये ।।४४।।
[४५] गन्तुं लयं स्वात्मनि तेऽस्ति वाञ्छा त्वयार्जवं चेतसि संश्रितं स्यात् । वक्रागतिर्यद्यपि सोरगाणां,
बिलप्रवेशे सरलैव दृष्टा ।। गन्तुमिति - स्वात्मनि स्वकीयशुद्धस्वरूपे लयं लीनत्वं गन्तं प्राप्तुं यदि हे भव्य! ते तव वाञ्छा अस्ति तर्हि त्वया चेतसि आर्जवं ऋजोर्भाव आर्जवं सरलत्वं कायवाङ्मनसामकौटिल्यमिति यावत् संश्रितं संसेवितं स्यात्। तदेवोदाहरति-यद्यपि उरगाणां सा प्रसिद्धा गतिर्वका कुटिलास्ति तथापि बिलप्रवेशे बिले स्वस्थाने प्रवेशस्त स्मिन् सरलैव ऋजुरेव दृष्टा नयनपथं गता ।।४५।। .. अर्थ - हे भव्य! स्वकीय आत्मा में लीनता प्राप्त करने की तेरी इच्छा है.तो तुझे
(३०४०