________________
आजीन
[३१]
पापेन पापं न लयं प्रयाति,
पुनस्तु पुण्यं पुरुषं पुनातु
मलं मलेनालमलं लयं तत्,
• विना विलम्बेन जलेन याति ।।
だ
पापेनेति - पापं दुरितं पापेन दुरितेन लयं विनाशं न प्रयाति पुनस्तु किन्तु पुण्यं पुरुषं पुनातु पवित्रं करोतु विदधातु । पुण्येन पुरुषः पूतो भवतीत्यर्थः । तदेवोदाहरति-मलेन मलं लयं नाशं न प्रयाति तत् मलेन अलमलं व्यर्थं व्यर्थमित्यर्थः । किन्तु जलेन सलिलेन विलम्बेन विना शीघ्रं लयं याति ।। ३१ । ।
अर्थ - पाप से पाप विनाश को प्राप्त नहीं होता किन्तु पुण्य मनुष्य को पवित्र करता है। जैसे मल से मल नाश को प्राप्त नहीं होता। अतः मल धोने के लिये बिल्कुल व्यर्थ है किन्तु जल के द्वारा वह मल शीघ्र ही नाश को प्राप्त हो जाता है ||३१||
[३२] विश्वस्य सारं प्रविहाय विज्ञः,
कः स्वं त्वटेत् स्वं भुवि वीतमोहः । निस्सारभूतं किमु तक्रमिष्टं,
स्वादिष्ट आप्ते नवनीतसारे ।
1. विश्वस्येति - भुवि पृथिव्यां वीतमोहो वीतो मोहो यस्य तथाभूतः मोहरहितः को विज्ञः को विशेषज्ञः । विश्वस्य भुवनस्य सारं श्रेष्ठं स्वमात्मानं प्रविहाय त्यक्त्वा स्वं धनम् अटेत् गच्छेत् प्राप्तुमिच्छेदिति यावत् । तदेवोदाहरति - इष्टेऽभिलषिते स्वादिष्टे स्वादुतरे नवनीतसारेनवनीत एव सारस्तस्मिन् आप्ते सति निस्सारभूतं सारहीनं तक्रं मथितं किमु इष्टं भवति? अपि तु नैव । । ३२ । ।
अर्थ - पृथ्वी पर ऐसा कौन निर्मोह ज्ञानी पुरुष है जो सब पदार्थों में सारभूत अपने आत्मा को छोड़कर धन को प्राप्त करना चाहे । स्वादिष्ट मक्खन रूप सार के प्राप्त हो जाने पर क्या सारहीन छांछ इष्ट होती है अर्थात् नहीं ||३२||
[३३] धनार्जनारक्षणयोर्विलीनो, विना सुखेनार्तमना मृतो ना । मोहस्य शक्तिर्जगता न गम्या, व्यथां गता सा चमरी यथात्र ।।
(२६६)