________________
सङ्गस्त्विति - यमिने मुनये समाधिकाले संन्यासावसरे सङ्ग:परिग्रहः सङ्गोऽस्तु परिग्रहो भवतु। स तु परिग्रहोस्त्येव किन्तु संघस्य चतुर्विधसाधुसमूहस्य भारोऽपि सङ्गः परिग्रहो भवति। अतएवाचार्यः समाध्यवसरे सङ्घस्य भारमन्यस्मै समर्प्य समाधि गृह्णातीति भावः। तदेवोदाहरति वा यथा 'वा स्याद्विकल्पोपमयोरिवार्थेऽपि सःच्चये' इति विश्वः कानि सुखरूपाणि भूषणकानि हूस्वानि भूषणानि भूषणकानि लघुभूषणानीति यावत् लघूनि गुरुत्वरहितानि वस्त्राण्यपि गुरूणि दुर्भराणि 'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति विश्वः अथवा भूषणकानि कानि किं वस्तूनि लघूनि वस्त्राण्यपि गुरूणि भान्ति ।।२७।। ___अर्थ - मुनि के लिये समाधि के समय परिग्रह तो परिग्रह है ही परन्तु सङ्घ का भार-दायित्व भी परिग्रह हो जाता है। जैसे वृद्ध के लिये सुखदायक लघु आभूषण और वस्त्र भी भारी हो जाते हैं अथवा वृद्ध के लिये अल्प आभूषण क्या है, लघु वस्त्र भी भारी लगने लगते हैं ।।२७।।
[२८] कायेन वाचा तु गुरु कठोरो, हितैषिणः स प्रति तान् विनेयान् । तथा न चित्तेन मृदुर्दयैक
धामा लघुः श्रीफलवत् सदास्तु।। कायेनेति - हितैषिणः हितमिच्छन्तीत्येवंशीलाः हितैषिणस्तान् हिताभिलाषिणः तान् सङ्घस्थितान् विनेयान् शिष्यान् प्रति स गुरुराचार्यः कायेन देहेन वाचा वाण्या तु कठोर कठिनाचारप्रियो यथा भवति तथा चित्तेन मनसा न भवति। मनसा तु श्रीफलवत नारिकेलवत् मृदुः कोमल: दयैकधामादयायाः करुणाया एकमद्वितीयधाम स्थानं लघुः गम्यः सदा सर्वदा अस्तु भवतु ।।२८।।
अर्थ - हिताभिलाषी संघस्थ शिष्यों के प्रति गुरु काय और वचन के द्वारा कठोर भले ही हों परन्तु मन से नारियल के समान कोमल, दया का प्रमुख स्थान और सुगम्य सदा रहना चाहिये ।।२८।।
[२९] पापाय पापैर्जिनवाक् श्रिता सा , पुण्याय पापातिगकैः पुनीता। जलस्य धारा रसमिक्षुणा च, निम्बोरगाभ्यां कटुतां सुनीता ।।
(२६६)