________________
पापायेति - पापैः पापं विद्यते येषां ते पापास्तैः पापयुक्तेर्जनैः 'अर्शआदिभ्योऽच्' इत्यनेन मतुबर्थेऽच् प्रत्ययः । पुनीता पवित्रा ज्ञानवैराग्यकारणत्वादिति यावत् सा प्रसिद्धा जिनवाक् जिनवाणी पापाय विषयकषायपोषणहेतवे श्रिता गृहीता । पापातिगः पापमतिक्रम्य गच्छन्तीति पापातिगाः ते एव पापातिगकास्तै: पुण्याय सुकृताय विषयकषायनिवृत्यै श्रिता सेविता । तदेवोदाह्रियते जलस्य सलिलस्य धारा प्रवाह: इक्षुणा रसालेन रसं माधुर्य सुनीता प्रापिता निम्बोरगाभ्यां निम्बश्चोरगश्च निम्बोरगौ पिचुमर्दसर्पो ताभ्याम् च कटुतां कटु स्वभावं सुनीता ।। २९ ।।
अर्थ - पापी मनुष्यों ने पवित्र जिनवाणी का आश्रय पापकार्य- विषयकषाय की पुष्टि के लिये लिया है और निष्पाप - पापरहित मनुष्यों ने पुण्य के लिये । जैसे ईख जल धारा को मधुररस प्राप्त कराती है और नीम तथा सर्प कड़वा रस ||२९||
[३०] यातोऽस्म्यहं - कारविकारभावं, कायस्य नो तं ममकारभावम् । यास्याम्यहं कायनिकायभावं,
नात्मा भृशं यन्मम कारभावम् ।।
यात इति - कायस्य शरीरस्य विषये अहंकारविकारभावं दर्शनमोहोदयेन जाता परस्मिन्नहंन्बुद्धिरहंकारः अहंकारश्चासौ विकारभावश्चेति अहंकारविकारभावस्तं, नो यातोऽस्मि । एवं ममकारभावं चारित्रमोहोदयेन जाता परस्मिन् ममत्वबुद्धि र्ममकारः सचासौ भावश्चेति ममकारभावस्तं नो यातो न प्राप्तोऽस्मि । अहं समुत्पन्नप्रज्ञः कायनिकायभावं काये शरीरे निकायभावं गृहभावं यास्यामि प्राप्स्यामि, शरीरेऽहंकारं ममकारं च त्यक्त्वा तदात्मनो गृहं निवासस्थानं जानामीति भावः । यत् यस्मात् सम आत्मा भृशं सातिशयं कारभावं कालभावं मरणं न यास्यति । 'यमकादौ भवेदैक्यं डलो र्वबो रलोस्तथा' इत्युक्तत्वात् कारपदेन कालस्य ग्रहणम् ।। ३० ।।
अर्थ - मैं शरीर के विषय में अहंकारभाव को और प्रसिद्ध ममकारभाव को प्राप्त नहीं हुआ हूँ अर्थात् शरीर में मेरा अहंभाव और ममत्वभाव नहीं है। मैं शरीर में निकायभाव गृहभाव को प्राप्त हूंगा अर्थात् शरीर को गृहरूप मानूंगा जिसके फलस्वरूप मेरा आत्मा कालभाव-मृत्यु को प्राप्त नहीं हो सकेगा ।। ३० ।।
(२६७)