________________
ऋषिगणो मुनिसमूहो जयतात् सर्वोत्कर्षेण वर्तताम् । । ४५ । ।
अर्थ चारित्रमोह रूप बन्धन का निराकरण करने के लिये जो व्यवहारचारित्ररूप नीतिमार्ग में रुचि - इच्छा अथवा श्रद्धा को प्राप्त हैं, सदा आलस को नष्ट करते रहते हैं, नदी, तट अथवा पर्वत पर आसुन लगाते हैं तथा जिनकी विषयवासना छूट चुकी है ऐसे मुनियों का समूह जयवन्त रहे ||४५ ।।
❤
[४६]
इह पुरागतकेऽस्य च योगता, मुपगताः स्वपदं मुनयो गताः । इति मतं नुतसाधुबुधार्य ! ते, यदिति सज्जगताप्यवधार्यते । ।
इहेति - हे नुतसाधुबुधार्य ! साधुबुधैर्नुतो नुतसाधुबुधः, स चासावार्यश्चेति नुतसाधुबुधार्यस्तत्सम्बुद्धौ हे साधुजनवन्दित ! पूज्य ! इहात्र लोके । अथवा इह वर्तमानकाले पुरागतके च तता नागतकाले च । अस्य निषद्यापरिषहस्य मध्ये योगतां ध्यानतामुपगताः प्राप्ता मुनयः स्वपदमात्मस्थानं मुक्तिधाम गताः प्राप्ताः । इति ते भवतो यत् मतं दर्शनं सिद्धान्तो वा तद् सज्जगतापि सल्लोकेनापि । इतीत्थमेव अवधार्यते निश्चीयते । 'योगः संनाहसंधानसङ्गतिध्यानकर्मणि' इति विश्वलोचनः । । ४६ । ।
अर्थ - यहां वर्तमान, भूत और भविष्यत् काल में जो मुनि इस निषद्यापरीषह के मध्य ध्यानता को प्राप्त हुए वे स्वपद - आत्मपद - मुक्तिधाम को प्राप्त हुए हैं, ऐसा जो आपका मत था वह अब भी विद्यमान जगत् के द्वारा इसी प्रकार माना जाता है ||४६ ||
[ ४७ ]
विमुख ! किं बहुना निजभावतः, सभय! हे शृणु चेद् यदि भावतः । इह युतोऽप्यमुना नतिमागत, ऋषिवरैः श्रय तच्च समा गताः । ।
3
विमुखेति -बहुना किम् ? अतिनिरूपणेन को लाभः ? निजभावतोः निजस्वभावात् हे विमुख ! हे पराङ्मुख! हे सभय! हे संसाराद् भीरो! चेद् त्वं निजभावतो विमुखोऽसि, यदि संसारात् सभयोऽसि च तर्हि भावतो विशुद्धपरिणामात् शृणु समाकर्णय । इह जगति अमुना निषद्यापरिषहजयेन युतः सहितोऽपि मुनिः ऋषिवरैर्मुनिश्रेष्ठैः नतिं नमस्कृतिं आगतः प्राप्तः । अतस्त्वमपि तच्च निषद्यापरिषहजयनं श्रय सेवस्व निषद्यापरिषहजयं विधेहीत्यर्थः । समा वर्षाः गताः व्यतीताः । आयुषो विपुलः समयो व्यपगत इत्यर्थः ' हायनोऽस्त्री शरत्समा' इत्यमरः । । ४७ ।।
अर्थ - अधिक कहने से क्या लाभ है ? यदि तू निज स्वभाव से विमुख हो रहा है और यदि चतुर्गति रूप संसार से भयभीत है तो शुद्धभाव से सुन ! इस जगत् में जो इस
(२३८)