________________
करने वाली तथा दुर्गतरूप नक्षत्रों के मध्य चन्द्रमा के समान शोभायमान पवित्र जिनवाणी जिसके मुख में निवास करती है वही विद्वान् है ||८३ ||
[८४]
समय! यावददो न! हि केवलं, ह्युदयतीह तरां न हि केवलम् । त्वमसि तावदहो ननु मानतः, शृणु लघुश्च तदा किमु मानतः । ।
समयेति - अहो न! हे पूज्य ! हे समय ! समयो विद्यते यस्य स समयस्तत्सम्बद्धौ, अशदिराकृतिगणत्वान्मतुत्वर्थे अप्रत्ययः आचार विद् ! ज्ञान विद् ! सिद्धान्तविद् ! 'नकारौ जिन पूज्ययोः' इति विश्वलोचनः 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । हि निश्चयेन यावत् केवलमद्वितीयं अदो लोकालोकावभासकं तत् केवलं केवलज्ञानं नहि उदयतितराम् नोत्पद्यते तावत् त्वं ननु निश्चयेन मानतो ज्ञानात् लघुनोऽसि । तदा मानतोऽभिमानात् किमु किं प्रयोजनम् । इति गुणु समाकर्णय केवलज्ञानात्पूर्वं सर्वेऽज्ञानिनः सन्ति ततस्तुच्छज्ञानस्य गर्वो न करणीय इति भावः । । ८४ ।।
अर्थ - हे पूज्य ! हे सिद्धान्त के ज्ञाता ! जब तक लोकालोक को प्रकाशित करने वाला वह अद्वितीय केवलज्ञान उदित नहीं होता है तब तक तुम ज्ञान से लघु-हीन ही हो; अतः मान - गर्व करने से क्या प्रयोजन है ? इसे सुनो || ८४||
[८५]
स्वसमयस्य सतोऽप्यनुवादकः, समययुक्तितया जितवादकः । परिवदेन्न मुनिर्मनसाक्षर - मसि निरक्षर एष तु साक्षरः । ।
स्वसमयेति सतः श्रेष्ठस्य स्वसमयस्य स्वकीयसिद्धान्तस्य । अनुवादकोऽपि भाषान्तरकर्तापि समययुक्तितया आगमयुक्ति कौशलेन जितवादकोऽपि जिता वादा न तथाभूतोऽपि सन् मुनिः मनसा चेतसा इत्यक्षरं न परिवदेत कथयेत् यत् त्वं निरक्षरोऽसि मूर्खोऽसि, एष तु साक्षरोऽस्ति विज्ञोऽस्ति ।। ८५ ।।
-
अर्थ श्रेष्ठ सिद्धान्त का अनुवादक तथा आगम और युक्ति के द्वारा वादों - शास्त्रार्थो को जीतने वाला होकर भी मुनि मन से यह शब्द न कहे कि तू मूर्ख है और यह विद्वान् ||८५||
[८६]
विनयतो जितबोधपरीषहः, श्रुतविदा जितचित्तकारी सह । दिशतु मे सुमतिं तु जिनालय जयता: रवि साधुगुणा तयः । ।
(२५५)