________________
विनयत इति - विनयतो विनयात् जितबोधपरीषहः जितो बोधपरीषहः प्रज्ञापरीषहो येन तथाभूतः। श्रुतविदा शास्त्रज्ञेन सह सार्धं जितचित्तकरी जितश्चित्तमेव करी गजो येन तथाभूतः। जिनालयः जिने आलयो लीनता यय तथाभूतः साधुगुणालयः साधोर्गुणा अष्टाविंशतिसंख्यका मूलगुणाः चतुरशीतिलक्षप्रमिता उत्तरगुणाश्च तेषामालय: स्थानम् स साधुः मे मह्यं सुमतिं सुबुद्धिं दिशतु। भुवि मह्यां स जयतात् जययुक्तो भवतु च ।।८६ ।।
अर्थ - जिसने प्रज्ञापरिषह को जीत लिया है, जिसने शास्त्रज्ञ मुनि के साथ मनरूपी हाथी को वश किया है, जो जिनेन्द्र भगवान् में लीनता को प्राप्त है तथा साधु के मूलोत्तरगुणों का स्थान है वह साधु मेरे लिये सुबुद्धि प्रदान करे तथा उनकी जय हो ।।८६।।
[८७] परिषहोऽस्तु निजानुभवि श्रुतं, ह्यपि मितं शिवदं बुधविश्रुतम् । बहुतरं तु तृणं सहसाप्यलं, दहति चाग्निकणी भुवि साप्यलम् ।।
परीति - परिषहोऽज्ञानपरिषहो भवतु नाम । तु किन्तु बुधविश्रुतं विद्वज्जनप्रसिद्ध निजानुभवि आत्मानुभवसहितं मितं सीमितमपि श्रुतं शास्त्रज्ञानं शिवदं मुक्तिप्रदं भवतीति शेषः। तदेवोदाहियते - भुवि पृथिव्यां सा प्रसिद्धा अग्निकणी अग्निकणानां समाहार इत्यग्निकणी अनलस्फुलिङ्गसमूहः। बहुतरं विपुलप्रमाणमपि तृणं सहसापि झटित्यपि अलं पर्याप्तरूपेण दहति भस्मीकरोति। अल्पश्रुतज्ञानतया बहुज्ञानिभिस्तिरस्कारे कृतेऽपि खेदो न कर्तव्य इति भावः ।। ८७।। ___अर्थ - अल्पश्रुतज्ञातपरिषह भले ही रहे परन्तु आत्मानुभव से सहित, विद्वज्जनप्रसिद्ध सीमित श्रुतज्ञान भी मोक्ष प्रदान करने वाला है; क्योंकि पृथिवी पर प्रसिद्ध अग्निकणों का समूह भी विपुल तृणों को शीघ्र ही भस्म कर देता है ||८७।।
[८८] व्रतवता प्रचुरः समयो गतः, पिहितखेन मयाजितयोगतः । मयि न बोधरवि भिवोदित, इति चलो भव मा समबोधितः ।।
व्रतेति - हे अभव! नास्ति भवो यस्य तत्सम्बुद्धौ हे संसारातीत! व्रतवता व्रतधारिणा, पिहितखेन पिहितानि खानीन्द्रियाणि येन तेन जितेन्द्रियेण मया अजितयोगतः अपराजितध्यानेन प्रचुरो भूयान् समयः कालो गतो व्यतीतः। तथापि मयि बोधरविः ज्ञानसूर्यो नोदितो न प्रकटित इतीत्थं विचार्य समबोधितः समरत्नत्रयात् चलो
(२५६)