________________
मनुष्य निश्चय से तिर्यञ्च योनि में उत्पन्न होते हैं, यह जानो ||४||
' ज्ञानेन वृद्धो यदि पक्षपाती, निजान्यहा स द्वयलोकशून्यः।। पयः पवित्रं परमार्थिपेयं,
लावण्ययोगात् किम् किंचिदस्ति ।। - ज्ञानेनेति - ज्ञानेन वृद्धो जनो यदि पक्षपाती पक्षे कदाग्रहे पततीति पक्षपाती अस्ति तर्हि स निजान्यहा निजश्चान्यश्चेति निजान्यौ तौ हन्तीति स्वपरधाती द्वयलोकशून्य इहामुत्र च शून्यो भवति। पवित्रं शुचि पयः क्षीरं परमार्थिपेयं परमार्थिभिः पातुयोग्यं भवति। लावण्ययोगात् क्षारद्रव्यसंयोगात् किमु किंचिदस्ति? अपि तु न। लवणसहितं पयोऽपेयमेव भवति यथा तथ: कदाग्रहयुक्तो नरः स्वान्यघाती लोकद्वयभ्रष्टश्च भवतीति भावः ।।५।। - . अर्थ - ज्ञान वृद्ध मनुष्य यदि पक्षपाती है-एकान्तवादी है तो वह निज- पर का घातक और उभय लोक से भ्रष्ट होता है। पवित्र दूध परमार्थी जनों के द्वारा पेय- पीने योग्य होता है पर नमक के मिलने पर क्या कुछ रहता है ? अर्थात् नहीं। अपेय हो जाता है।।५।। .
[६] अक्षार्थकास्वे हितका भवन्ति, धर्मोऽहितः पापवतां भवेऽस्ति ।।
तथ्यं च पथ्यं न हि रोचते तत्, . सत्यां रुजायां विधिरोगिणेऽत्र ।। अक्षेति - ये अक्षार्थकाः अक्ष्णोति जानातीत्यक्ष आत्मा तस्यार्थे विषये कं सुखं येषां ते हितका हिता एव हितकाः हितरूपा भवन्ति। पापवतां पापिनां जनानां भवे संसारे धर्मः, धरति प्रापयति स्वर्गापवर्गस्थानं यः स धर्मः सुकृताचरणं । अहितोऽहितरूपो भवति जायते। तदेव समर्थयति-अत्र लोके विधिरोगिणे विधिः कर्मोदय एव रोगो विधिरोगः सोऽस्ति यस्य तस्मै रुजायां रुग्वेदनायां सत्यां पथ्यं हितकरं वस्तु न रोचते रुचिकरं नहि भवति इति यत् प्रसिद्धं तत् तथ्यं सत्यमस्तीति शेषः। यथासद्वे द्योदयसमुत्पन्नरोगायाल्पायुषे पथ्यं न रोचते तथा दीर्घभवायेन्द्रियविषयासक्ताय धर्माचरणं धर्मोपदेशो वा न रोचत इति भावः ।।६।।
. .. (२)